SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा - ५०, ५१- जीवानां प्राणसङ्ख्या तथा जीवात् प्राणवियोजनं हिंसा ।। प्राणा वक्ष्यमाणलक्षणास्ते विद्यन्ते यस्य तेन प्राणीति प्रोच्यते जीवः । प्राणान् पुनर्दशसङ्ख्यानागमप्रणीतान् अमून् जानीहि ।। ४९ ।। ५८ प्राणाने वाह - पंचिंदियाणि मणवयणकायबलमाणपाणमाउं च । एए दसहा पाणा पत्रत्ता जिणवरिंदेहि ।।५०।। स्पर्शनरसनघ्राणचक्षुःश्रोत्रलक्षणानि पञ्चेन्द्रियाणि । मनोबलं वाग्बलं कायबलं चेति बलत्रयम् । आनप्राणमुच्छ्वासनिश्वासः । आयुश्चेति दशधा दशप्रकारा एते पूर्वोदिताः प्राणाः प्रज्ञप्ताः प्रोक्ता जिनवरेन्द्रैर्भगवद्भिरर्हद्भिः ।।५० ।। अथ जीवस्य प्राणानां च कः सम्बन्धः ? इति चेत् तदाह जहसंभवं इमे पुण जीवेण समं भवंति संघडिया । आउट्टिप्पभिईहिं एयाण विओयणं हिंसा ।। ५१ । । - अमी पुनः प्राणा जीवेन समं सङ्घटिता भवन्ति । तत्किं सर्वेऽपि ? न, इत्याह - 'यथासम्भवं' ये प्राणा यस्य एकेन्द्रियादेर्जीवस्य सम्भवन्ति । तथाहि - एकद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञियथासङ्ख्यं चतुः षट्सप्ताष्टनवदशसङ्ख्याः प्राणा भवन्ति । एकेन्द्रियाणां स्पर्शनमिन्द्रियं कायबलं निःश्वासोच्छ्वासः आयुश्चेति चत्वारः । द्वीन्द्रियाणामेतदधिकं रसनेन्द्रियं वाग्बलं चेति षट् । त्रीन्द्रियाणां तदधिकं घ्राणमिति सप्त । चतुरिन्द्रियाणां पूर्वाधिकं चक्षुरित्यष्टौ । असंज्ञिनामेतदधिकं श्रवणेन्द्रियमिति नव । संज्ञिनां सर्वाधिकं मनोबलमिति दश । यदाह 'इंदियबलऊसासा पाणा चउ छच्च सत्त अट्ठेव । safares सन्निसनी नव दस पाणा य बोधव्वा । । १ । । [ Jain Education International 2010_02 ] - गाथा - ५०1. तुला - पंचिंदिय-तिविहबलं नीसासूसासआउयं चेव । दसपाणा पत्रत्ता तेसिं विघाओ भवे हिंसा ।। - सम्य. प्र. गा. २१५ ।। पञ्चेन्द्रियाणि स्पर्शनादीनि । त्रिविधबलं मनोवाक्कायजनितः शक्तिविशेषः । निःश्वासोच्छ्वासं अधऊर्ध्वाऽनिलप्रचारः । आयुर्जीवितं । एते दश प्राणाः प्रज्ञप्तास्तीर्थकरादिभिः तेषां विघातो वियोजनं भवेद्धिसा न तु जीवस्य विनाशस्तस्याऽप्रच्युताऽनुत्पन्नस्थिरैकस्वभावत्वात् ।। - सम्य. प्र. २१५ वृत्तौ ।। गाथा - ५१ 1. तुला - पणिदियत्तिबलूसासाऊ दस पाण चउ छ सग अट्ठ । इगदुतिचउरिंदीणं, असन्निसन्नीण नव-दस य । । १ ।। - नव. प्र. जीवतत्त्वे गा. ७ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy