________________
हितोपदेशः । गाथा-५२, ५३ - जीवात् प्राणवियोजनं हिंसा ।।
___५९ अनेन प्रकारेणामी प्राणा जीवेन समं सङ्घटिता भवन्ति । अमीषां प्राणानामाकुट्टि-प्रमाददर्प-कल्पप्रभृतिभिः कारणैर्यत् जीवात् वियोजनं पृथक्करणं सा हिंसा इत्ययं हिंसाशब्दार्थः । तत्र आकुट्टिः-उपेत्यकरणं, प्रमादो-अनाभोगादिः, दो-धावनवल्गनादिः, कल्पः-कारणवशात् करणम् । यदाह -
आउट्टिया उविच्चा दप्पो पुण होइ वग्गणाईओ। कंदप्पाइ पमाओ कप्पो पुण कारणे करणं ।।१।। [
] ५१।। अथ जीवात् पृथग्भूतानां प्राणानां वियोजनेन जीवस्य का हिंसेति चेत्तदाह -
सासयरूवाओ वि हु जीवाउ इमेसि जं पुढोकरणं ।
तं तस्स तिव्वदुहदायगं ति उवयारओ हिंसा ।।५२।। शाश्वतरूपादविनश्वररूपादपि जीवादात्मन अमीषां प्राणानां यत् पृथक्करणं तत् तस्य जीवस्योपचारिकवधरूपत्वात् हिंसा । 'दसपाणविओअणं हिंस' त्ति वचनात् । कुतः? इत्याहतत् प्राणवियोजनं, तस्य जीवस्य तीव्रदुःखदायकम् अत्यन्तपीडोत्पादकम् इति हेतोः । वियुज्यमानेषु हि प्राणेषु महानात्मनो वेदनासमुद्धातः परभवप्रस्थानं च भवति । प्राणत्यागमपि मरणमिति व्यपदेशात्, न च मरणादन्यदपि दुःखमिति ।।५२।। एवं च अहिंसायाः स्वरूपमभिधित्सुराह -
एवंविहहिंसाए जो परिहारो हविज्ज सा हु दया ।
हवइ उ अतुल्लकल्लाणकारणं सेविया एसा ।।५३।। एवंविधाया दशप्राणवियोजनलक्षणाया हिंसाया यः परिहारः त्यागः हुः अवधारणे, सैव दया भवेत् । एषा पुनर्दया सेविता सम्यगाराधिता सती अतुल्यकल्याणकारणं भवति । निरुपमश्रेयः समृद्धिहेतुः सम्पद्यते । ननु दानतपःप्रभृतयोऽपि धर्माः सम्यगाराधिताः साधयन्ति निःश्रेयसं,
दसहा जियाण पाणा इंदियऊसासआउबलरूवा । एगिदिएसु चउरो विगलेसु छ-सत्त-अटेव ।।१।। असन्निसन्निपंचिदिएसु नव-दस कमेण बोधव्वा । तेहिं सह विप्पओगो जीवाणं भन्नए मरणं ।।२।।
- जीव. प्र. गा. ४२-४३ गाथा-५२ 1. वेयणकसायमरणे वेउब्विय तेयए य आहारे । केवलि य समुग्घाया सत्त इमे हुंति सन्नीणं ।।१।।
- दंड. प्र. गा. १६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org