________________
६० हितोपदेशः । गाथा-५४, ५५, ५६ - अहिंसायाः स्वरूपम्, श्रेष्ठोपमया अहिंसाधर्मस्य माहात्म्यं च ।।
किमधिकं दयाधर्मस्य?, सत्यं, सन्त्येव दानादयो धर्माः शर्माद्वैतहेतवः, किन्तु दयाधर्मपुरस्कृता एव, अतो अहिंसालक्षणाद् धान्नान्यः प्रकृष्टतमो धर्मः ।।५३।। इत्येतदेवोपमानद्वारेण व्यवस्थापयन्नाह -
को तेयंसी तवणाउ को व सुरसहयराओ ओयंसी । को व तरस्सी पवणाओ को व मयणाउ रूवस्सी ।।५४।। किं नहयलाउ विउलं सुपइट्ठा किं च धरणिवट्ठाउ ।
को अनो वि हु धम्मो जीवदयाओ विसिट्टयरो ।।५५।। युग्मम् । जीवदयातः क इवान्योऽपि धम्मों विशिष्टतरः प्रकृष्टतमः । यथा किम्? यथा तपनाद् दिनकरात्, क इवान्यस्तेजस्वी ? प्रदीपमणितारकेन्दुप्रभृतितेजस्विवर्गे तस्यैवाधिकतेजस्वित्वात् । कश्च सुरसहचराद् अपर ओजस्वी? सुराः सहचरा अनुजीविनो यस्येति व्युत्पत्त्या सुरसहचरः-शचीपतिः । ओज्यपौरुषोष्मायितः । अतः क इवान्यस्तस्मादोजस्वी? तस्यैव सकलसुरचक्रशक्रत्वात् । कश्च पवनात् प्रभञ्जनादन्यस्तरस्वी वेगवान् ? गजवाजिद्वीपिमृगादिवेगवद्भ्यस्तस्यैवातिवेगवत्त्वात् । को वा मदनात् प्रद्युम्नात् रूपवान् ? पुरूरवाप्रभृतिभ्योऽपि तस्यातिसुरूपत्वात् । तथा नभस्तलाद् अन्तरिक्षात् किमिवान्यद् विपुलं विस्तीर्णम्? तस्यैव लोकालोकव्यापकत्वात् । किं च धरणीपृष्ठात् सुप्रतिष्ठं निश्चलम् ? सकलाचलावचूलस्य चामीकरधराधरस्यापि तदाधारत्वात् । किमुक्तं भवति? यथा तपनादिभ्यस्तेजस्वित्वादिगुणैर्नान्यः प्रकृष्टतमस्तथा अहिंसालक्षणाद् धर्मान्नान्यः परभागवानिति भावः ।।५४ ।।५५ ।। प्राणिप्राणप्रहाणपरित्राणे एव यथाक्रमं पापपुण्यारम्भसम्भृतिनिमित्तमिति दर्शयन्नाह -
निहणंतो पाणिगणं पावट्ठाणं न किं समारभइ ।
रक्खंतो पुण तं चिय पुनट्ठाणं न किं जीवो ।।५६।। निघ्नन् विनाशयन्, प्राणिगणं सत्त्वसङ्घातं, जीवः किं नाम पापस्थानं न समारभते? गाथा-५५ 1. शचीपतिः-शचते मधुरं वक्तीति शची ।
- अ. चि. ना. श्लो. १७५ ।। शच्याः पतिः शचीपति: यौगिकत्वात् शचीश: पौलोमीश इत्यादयः । - अ. चि. ना. स्वो. टी. श्लो. १७३ ।। 2. पुरूरवा - पूरू रौति पुरूरवाः, “विहायस्सुमनस्' (उणा-९७६) इत्यसि निपात्यते ।
- अ. चि. ना. स्वो. टी. ७०१ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org