________________
हितोपदेशः ।गाथा-५७, ५८ - जीवहिंसायाः पापारम्भः, जीवरक्षायाः पुण्यारम्भश्च ।।प्राणिघातमनिष्टपुष्टिहेतुः ।। ६१
केष्वसत्यास्तेयप्रभृतिषु पापस्थानेषु न प्रवर्त्तते ? 'समस्तपापप्रारम्भाणां जीववधमूलत्वात्'? तथा स एव जीवस्तमेव प्राणिगणं जन्तुजातं रक्षनात्मानमिव प्रतिपालयन् किं नाम पुण्यस्थानं नोपक्रमते ? 'सकलपुण्यारम्भपुण्याहमङ्गलरूपत्वात् प्राणिदयायाः' ? ।।५६।। अपरं च -
एवं पि ताव कटुं पावं ति मुणतयाऽवि जं केई ।
वसणगणतप्पणट्ठा पाणिवहे संपयट्टति ।।५७।। एतदपि तावत् कष्टम् । विशिष्टविवेकवतामरतिहेतु यत् केचिदविवेकिनः प्राणिवधे जीवसंहारे प्रवर्त्तन्ते । किं कुर्वन्तोऽपि? विदन्तोऽपि । किं? तत् पापमिति । 'महते पापाय प्राणप्रहाणम्' इति जानन्तोऽपि । किमर्थं तर्हि प्रवर्त्तन्ते? इत्याह-व्यसनगणतर्पणार्थ 'विशेषेण अस्यन्ते क्षिप्यन्ते दुर्गतौ जन्तव एभिरिति व्यसनानि' मद्यमांसमैथुनासेवनप्रभृतीनि, तेषां सन्तर्पणाय-पूर्तये । न खलु जन्तुजातकदन्नव्यसनानि पूर्यन्ते, अतस्तावदमीषामैहिकसुखाभिलाषलवलुब्धमनसामेनसि प्रवृत्तिः ।।५७।। ये तु धर्मधियैवाधर्मकर्मसु प्रवर्त्तन्ते तेषां प्रवृत्तिमनुशोचयन्नाह -
एयं पुण कट्ठयरं सक्कं सोउं पि कह सयनेहिं ।
जं केइ पाणिघायं करंति किर धम्मबुद्धीए ।।५८।। एतत् पुनः कष्टतरं शिष्टानां प्रकृष्टानिष्टपुष्टिहेतुः । अत एव सकर्णैः सहृदयैः, आस्तामनुमोदयितुं प्रेरयितुं वा । यावत् श्रोतुमपि न शक्यं सुतरामसम्बद्धत्वात् । यत् किम्? । यत् स्वयं नष्टैरन्येषामपि नाशनपरैः कुशास्रकारैः प्रेरिता: केचन मिथ्याधार्मिकम्मन्याः प्राणिघातम् असुमद्विशसनं, किल धर्मबुद्ध्या कुर्वन्ते । यदाहुः-तदाप्ताः-कदागमकृत: 'यज्ञार्थं पशवः सृष्टा'
गाथा-५७ 1. व्यसनानि - 'हेयं व्यसनसप्तकम्' विशेषेणाऽस्यते क्षिप्यते चित्तमेभिरिति व्यसनानि तेषां सप्तकम् ।
- अ. चि. ना. स्वो. वृ. श्लो. ७३८ ।। 2. एनसि - एनस् - अशुभ, पाप, दुष्कृत्य इति भाषायाम् स. ए. । एत्येनः क्लीबलिङ्गः “अर्त्तणिभ्यां" ।
- (उणा. ९७९) इति नस् । अ. चि. ना. स्वो. वृ. श्लो. १३८० ।। गाथा-५८ 1. “यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा । यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः" ।।
__- यो. शा. २/३३ ।। इति यज्ञार्थं ..... श्लोकस्य पूर्तिः ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org