SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-५९ - आत्मवत् सर्वभूतेषु पश्यत ।। इत्यादि । अतः कथमनादिदुर्वासनावशात् स्वयमेवाधर्मकर्मप्रवृत्ताः प्रेरिताश्च कुशास्त्रकृद्भिर्न भवेयुर्दुर्गतिमार्गजङ्घालाः प्राणिन इति ।।५८।। न च मधुपर्क-क्रतु-कुतीर्थपरिशीलनादिभिरपि शरीरिणामात्यन्तिको दुःखमोक्षः सम्भवति, किन्त्वेतद्विलक्षणः कोऽपि दुःखमोक्षोपाय इति प्रदर्शयन्नाह - किं तित्थसत्थपरिसीलणेहिं किं होमसोमपाणेहिं । पिक्खह अप्पं व जिए रक्खह दुक्खाउ अप्पाणं ।।५९।। किं तीर्थसार्थपरिशीलनैः ? तत्र तीर्थानि लौकिकानीह प्रस्तावादवगन्तव्यानि, तानि च गङ्गागया-गोदावरी-त्रिपुष्कर-प्रयाग-प्रभास-प्रभृतीनि । अत एतेषां परिशीलनेन-परिचरणेन, किं? न किञ्चिदित्यर्थः । यदि वा तीर्थानां शास्त्राणां वा लौकिकानामेव, वेदवेदान्तस्मृतिपुराणेतिहासभारतरामायणप्रभृतीनां, तेषामपि परिशीलनेनाभ्यसनेन किम्? तथा होमसोमपानाभ्यां किम्? तत्र होमोऽग्निकारिका-वाजिनीराजनादिः । सोमपानं-सप्ततन्तुपरिसमाप्तौ सोमवल्लीरसपानम्, उपलक्षणं च सोमपानं यावत् ब्रह्मयज्ञ-देवयज्ञ-पितृयज्ञ-नृयज्ञ-भूतयज्ञादिभिः पञ्चमहायज्ञैर्वा किम्? न किञ्चिदेव । यतः कुतीर्थपरिशीलन-यज्ञावसानेष्वमीष्वेकस्यापि दुःखमोक्षाक्षमत्वात् । तर्हि कथमयमात्मा दुःखेभ्य: परिरक्षणीयः? इत्याह-'पिक्खहे'त्यादि । जीवान् प्राणिनः आत्मानमिव पश्यत । यथैवात्मनः सदैवेष्टयोगायाऽनिष्टवियोगाय च प्रयत्नः क्रियते तथा सर्वप्राणिषु, प्रकृत्यैव हि प्राणिनां दुःखभीरुत्वात् सुखप्रियत्वाञ्च । अनेनैव च स्वानुभवगोचरेणोपायेनात्मानं दुःखात् क्लेशजालात् रक्षत प्रतिपालयत । किमुक्तं भवति ? अहिंसालक्षणादेव धर्मादात्यन्तिको जीवानां दुःखमोक्ष: स्यात् । तीर्थोपासनशास्त्रपरिशीलनयज्ञहोमदानादिभ्यश्च भयभीतभूताभयप्रदानलक्षण एव धर्मः प्रकृष्टतमः, न चैतदार्हतराद्धान्तसुप्रसिद्धमेवेति वाच्यम्, समस्तशास्रोपनिषद्विदामितरेषामपि सम्मतत्वात् । तथा चाहुस्त एव - 2. जवाल - अतिजवोऽर्थे “जचे स्तोऽस्य जङ्घालः" । “प्राण्यङ्गादातो लः" ।। ७/२/२० सि. हे. ।।। गाथा-५९ 1. तुला - आत्मवत् सर्वभूतेषु सुख-दुःखे प्रियाऽप्रिये । चिन्तयन्नात्मनोऽनिष्टां हिंसामन्यस्य नाचरेत् ।। - यो. शा. २/२० ।। 2. तुला - यो भूतेष्वभयं दद्याद् भूतेभ्यस्तस्य नो भयम् । यादृग् वितीर्यते दानं तागासाद्यते फलम् ।। - यो. शा. २/४८ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy