________________
हितोपदेशः । गाथा- ३३, ३४, ३५ - गुणानां माहात्म्यम् ।।
प्रणयिजनमनोमनोरथान् पूरयन्ति । कदाचित् एकदा एव नेत्याह: - नित्यमपि सदैव । क्व सति ? मनुष्यत्वे तुल्येऽपि करचरणाद्यवयवसाम्येन नरत्वे समानेऽपि तत् किम् ? सर्वेप्येवंविधाः पुमांसः ? इत्याह - केऽपि न तु सर्वे, 'दुर्लभा हि सर्वत्र ब्रह्माण्डभाण्डोदरेऽपि दानशौण्डाः ' । यदुक्तम् - तेषु जायते शूरः सहस्रेषु च पण्डितः ।
वक्ता शतसहस्त्रेषु दाता भवति वा न वा । । १ । । [
]
के इव फलन्ति ? कल्पद्रुमा इव । यथा कल्पमहीरुहः स्वसेवकेभ्यो मनोऽभिलषितैः फलैः फलन्ति । तदेतच्चिरसञ्चितगुणानां माहात्म्यम्, तदन्तरेण दानशक्तेरभावात् । यदाह
] इति ।। ३२ । । किञ्च -
भोज्यं भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः ।
विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥ १ ॥ । [
अने पयंडभुयदंडपयडियाणप्पदप्पमाहप्पा | जं वग्गरखग्गकरा करंति करगोयरं पुहविं ॥ ३३ ॥ |
तुल्ये मनुष्यत्व इत्यनुवर्त्तते । यच्चान्ये पृथ्वीं करगोचरां कुर्वन्ति तदपि गुणानां माहात्म्यम् । किंविशिष्टाः? प्रचण्डभुजदण्डप्रकटितानल्पदर्ष्णमाहात्म्याः । दुर्द्धरदोः परिघाविः कृतप्रचुरतराभिमानगरिमाणः । दर्पो अभिमानः, माहात्म्यं - गरिमगुणः, यदि वा दर्पस्यैव माहात्म्यम् । कदाचित् गजवाजिरथपत्तिपरिवृतास्ते पृथिवीं करगोचरां कुर्युरित्याह वल्गत्खड्गकरा करप्रेङ्खोलत्करवालमात्रसहाया एव ।। ३३ ।। अन्यच्च
भयवसनमंतसामंतवियडकोडीरघडियपयपीढा ।
पयडपयावा केई जं किर भुंजंति भरहद्धं ॥ ३४॥
५३
-
-
यच केचन भरतार्द्ध भुञ्जते अर्द्धचक्रवर्त्तिनो भवन्ति । किंविशिष्टाः ? प्रकटप्रतापा: परिस्फुरदुरुतेजसः । एतदेव व्यनक्ति सम्भ्रमप्रणमन्मुकुटबद्धमूर्द्धाभिषिक्तविकटकिरीटसंश्लिष्टपादपीठाः । तत्प्रतापाक्रान्ता हि ते तथा प्रणमन्ति ।।३४।। अपरं च -
भुयबलविढत्तवसुहा ठवियाऽवहितुल्लचुल्लहिमवंता ।
सुरखयरनया अवरे जं जाया पुहइपुरहूया ।। ३५ ।।
For Private & Personal Use Only
गाथा - ३५ 1. वढत्तवसुहे सं. पा. प्रतिमध्ये किन्तु मूलगाथाया प्रतिमध्ये विढत्तवसुहा पाठः स च समीचीनो भाति । संपा. ।।
Jain Education International 2010_02
www.jainelibrary.org