________________
हितोपदेशः । गाथा-२९ - भक्तिरागस्य गौरवम् ।।
अनेन पूर्वोक्तेन जिनमतभक्तिरागरत्नेन तथा कथमपि सम्यक्त्वं विभूष्यते अलङ्क्रियते । किल सम्यक्त्वमेव तावदात्मनः कनकभूषणप्रतिमम्, तस्य च भक्तिरागरत्नमलङ्करणमतो भूषणस्यापि भूषणनिभेनानेन तथा सम्यक्त्वं भूष्यते यथा भक्तिरागरत्नालङ्कृतसम्यक्त्वभूषणधरं नरं पुमांसम्, आस्तां तावन्मामर्त्यश्रियो यावत् सर्वोत्तमा तीर्थकृत्कमलापि' तं सरभसमभिसृत्य वृणोति । भवति हि विशिष्टभूषणधरः स्वभावसुन्दरः पुमान् प्रमदाजनस्याभिगम्य इति ।।२८।। अथ कथं सम्यक्त्वधरे नरि निरतिशयाप्यर्हदिन्दिरा' रमत इत्यवगतमत एतत्समर्थनायाह -
इत्तु छिय पुवभवे जिणपवयणनिबिडभत्तिराएण ।
पत्तं तित्थयरत्तं सिरिसंभवतित्थनाहेण ।।२९।। इत एव यत इदं पूर्वोक्तमेवमत एव पूर्वं श्रीविपुलवाहननरेन्द्रजन्मनि जिनप्रवचननिबिडभक्तिरागेणैव हेतुना प्राप्तं लब्धं तीर्थकरत्वं परमार्हन्त्यपदवीसमुद्भासितं जिनराजत्वम् । केन ? इत्यत आह - श्रीसम्भवतीर्थनाथेन । जम्बूद्वीपभरतेऽवसर्पिणीसमुत्पन्नश्रीऋषभादिचतुविंशिकातृतीयतीर्थनाथेन श्रीसम्भवनाम्ना ।।२९।। सम्प्रदायगम्यं च श्रीसम्भवप्रभोश्चरितम् अतस्तमेवाह -
।।श्री सम्भवप्रभुचरितम् ।।
[प्रथमो भवः] उद्धरियमोहसल्लं अतुल्लकल्लाणकंदघणतुल्लं । सिद्धिपुरंधीदइयं वंदिय तित्थंकरं तइयं ।।१।। तस्सेव सयलसुहसंभवस्स सिरिसंभवस्स जगगुरुणो । भुवणच्छरियं चरियं लेसेण जहासुयं भणिमो ॥२॥ लवणोयलहरिलोलंतलोलफेणच्छडापयडहासं । बालं व जंबूदीवं दटुं ठविउं निउच्छंगे ।।३।। गाथा-२८ 1. कमला स्त्री० काम्यते श्रिया इति कमलं, 'मृदिकन्दि' (उणा-४६५) इत्यल: । कमलमस्त्यस्याः इति
- अभि. चि. श्लो. २२६ ।। गाथा-२९ 1. इन्दिरा स्त्री. इन्दत्यनया इन्दिरा “मदि मन्दि" (उणा-४१२) इति बहुवचनादिरः ।
- अभि. चि. श्लो. २२६ ।। 2. संभव: पु० शं सुखं भवत्यस्मिन् स्तुते शंभवः, यद्वा गर्भगतेऽप्यस्मिन्नभ्यधिकसस्यसंभवात् संभवोऽपि ।
- अभि. चि. दे. का. श्लो. २६ ।। 3. जंबूदीवं सं. प्र. ।। जंबुदीवं पा. प्र. ।।
कमला।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org