SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ३४ हितोपदेशः । गाथा-२७, २८ - भक्तिरागस्य गौरवम् ।। मित्याद्यवबुध्यते । अकुशलस्तु सूत्रार्थेषु कदाचिदन्यथास्थितमन्यथावगच्छन्नुपदिशंश्च स्वपरयोमिथ्यात्वहेतुत्वेन भवाभिनन्दी भवति । अतः सूत्रार्थकौशलेनापि चतुर्थेन सम्यक्त्वं विभूष्यते । (५'तथा - "अत्यन्त: भक्तिराग: पञ्चमं भूषणं दर्शनस्य । जिनप्रवचन एव आत्यन्तिकः प्रगाढो रागो भक्त्यतिशयः । तद्वशाञ्च देवगुरुसङ्घकृत्ये निजवित्तप्राणानपि तृणायाप्यमन्यमानस्य तदुचितेषु च विनयवैयावृत्त्यादिषु निरन्तरं प्रवर्त्तमानस्य, विशेषतश्च कान्तार-विषमदुर्ग-रोगातङ्क-दुर्भिक्षादिषु चतुर्विधमपि सङ्घ यथौचित्येन पानानवस्रपात्रौषधभेषजपीठफलकशय्यादिभिरुपचरतः, सर्वबलेन च प्रत्यनीकप्रत्यूहमपहस्तयतः समनुमीयते निबिडोऽस्य जिनप्रवचनभक्ति-रागः, तेन च विशेषतः सम्यक्त्वं विभूष्यते ।।२५।।२६।। अथान्यविभूषणेभ्यः कथमनेन सविशेषं दर्शनमलङ्क्रियते ? इत्याह - संतम्मि भत्तिराए जेण पवित्ती पभावणाईसु ।। तिलयं व तओ सारो सम्मत्तविभूसणेसु इमो ।।२७।। सति हि विद्यमाने भक्तिरागे मानसप्रीतिप्रकर्षे, येन कारणेन प्रवृत्तिः प्रचारः, प्रभावनादिषु सम्यक्त्वविभूषणेषु, अन्तरेण हि भक्तिरागमसम्भवीनि प्रभावनादीनि, विद्यमानान्यपि वा न खलु यथोक्तफलप्रदानि । तत एव हेतोः सर्वेष्वपि स्थैर्यादिसम्यक्त्वविभूषणेषु अयं भक्तिरागः सारः रहस्यम् । किंवत्? तिलक इव । यथा हि किल तिलक:-'अलिकविभूषणं कुण्डलप्रैवेयहारकेयूरादिषु प्रमदाभूषणेषु सार इति ।।२७।। पुनर्भक्तिरागस्यैव गौरवमुद्भावयन्नाह - भूसिज्जइ सम्मत्तं तह जिणमयभत्तिरायरयणेण । जह तित्थयरसिरी वि हु सम्मत्तधरं नरं वरइ ।।२८।। 10. भक्तिः प्रवचने विनय-वैयावृत्त्यरूपा प्रतिपत्तिः । (१) सम्यग्दर्शन-ज्ञान-चारित्रादिगुणाधिकेष्वभ्युत्थानमभि-यानं शिरस्यञ्जलिकरणं स्वयमानसनढौकमासनाभिग्रहो वन्दना पर्युपासना अनुगमनं चेत्यष्टविधकर्मविनय-नादष्टविध उपचारविनयः । (२)व्यावृत्तस्य भावः कर्मवावैयावृत्यम् । तञ्चाचार्योपाध्यायतपस्वि-शैक्षक-ग्लान-कुल-गणसङ्घसमनोज्ञेषु दशस्वन्न-पान-वस्त्र-पात्र-प्रतिश्रय-पीठ-फलक-संस्तारादिभिर्धर्मसाधनैरुप-ग्रहः, शुश्रूषा भैषजक्रिया कान्तार-विषम-दुर्गोपसर्गेष्वभ्युपपतिश्च । - यो. शा. वृत्तिः २/१६ ।। गाथा-२७ 1. अलिक न० “अल्यते भूष्यते तिलकादिभिः इति अलिकम्, क्रीकल्यलि" (उणा-३८) इति इक: प्रत्ययः" । - अभि. चि. श्लो. ५७३ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy