________________
हितोपदेशः । गाथा-२५, २६ - सम्यक्त्वस्य भूषणानि ।।
(३)तथा सुप्रशस्ततीर्थसेवा । तत्र तीर्थ-समुद्रादेरिव संसारस्यापि तरणार्थं सुखावतारो मार्गः । स च संसारोत्तारे प्रातिकूल्येन गङ्गा-गया-प्रयाग-पुष्करादिरप्रशस्तोऽपि भवतीत्यत आह ‘सुप्रशस्त' इति सुप्रशस्ततीर्थमपि द्विधा-द्रव्यतो भावतश्च तत्र द्रव्यतीर्थं यत्र भगवतामर्हतां जन्मदीक्षाज्ञानसमवसरणनिर्वाणादि भवति । यदवाचि -
जम्मं दिक्खा नाणं तित्थयराणं महाणुभावाणं ।।
जत्थ य किर निव्वाणं आगाढं दंसणं होइ ।।१।। [यो. शा. वृत्तिः २/१६] भावतीर्थं चतुर्विधः श्रीश्रमणसङ्घः प्रथमगणधरो वा । यदाहुः – "तित्थं भंते ! तित्थं, तित्थयरे तित्थं ? गोयमा ! अरिहा ताव नियमा तित्थंकरे तित्थं पुण चाउव्वन्ने समणसंघे पढमगणहरे वा ।' [भगवतीसूत्र-श० २०, उ० ८, सू० १४] एतयोः प्रशस्तयोर्द्रव्यभावतीर्थयोः सेवा पर्युपास्तिः , सुप्रशस्ततीर्थसेवा सा सम्यक्त्वस्य तृतीयं भूषणम् ।
(४)तथा सूत्रार्थयो: कौशलम् । तत्र सूत्रं-जिनागमः । अर्थः-तदनुयोगः । उभयोरपि कौशलंविभागज्ञानम् । सूत्रकुशलो हि श्रुतमात्र एव सूत्रे पूर्वापराविसंवादादिभिर्लक्षणैर्लक्षयति यदिदं नूनं
जैनसूत्रम्, तदन्यथात्वेन चान्यथा । तथा, इदं परवचनमिदमाचार्यवचनम्, इदमुत्सर्गसूत्रमिदमपवादसूत्रमित्यादि जानाति । अर्थकुशलश्च श्रुतेऽप्यर्थे विमृशति-यदिदमनुपयुक्तभाषितमिदमुपयुक्तवचनम्, इदमसूया भणनम्, इदं भयसूत्रम्, इदं जिनकल्पिविषयमिदम्, इदं स्थविरकल्पिगोचर
6. तुलना-तीर्थंनद्यादेरिवसंसारस्यतरणेसुखावतारोमार्गः । तच्चद्वेधाद्रव्यतीर्थभावतीर्थंच ।द्रव्यतीर्थंतीर्थकृतांजन्मदीक्षा-ज्ञान-
निर्वाणस्थानम् ।यदाह - जम्मं दिक्खा नाणं तित्थयराणं महाणुभावाणं । जत्थ य किर निव्वाणं आगाढं दंसणं होइ ।। भावतीर्थं तु चतुर्वर्णः श्रमणसङ्घः प्रथमगणधरो वा यदाह - तित्थं भन्ते तित्थं तित्थयरे तित्थं ? गोयमा ! अरिहा ताव नियमा तित्थंकरे तित्थं पुण चाउवण्णे समणसंघे
पढमगणहरे वा । तीर्थस्य सेवा तीर्थसेवा ।। - यो. शा. वृत्तिः २/१६ । धर्म सं. वृत्तिः गा. २२ ।। 7. छाया - जन्म-दीक्षा ज्ञानं तीर्थकराणां महानुभावानाम् । यत्र च किल निर्वाणमागाढं दर्शनं भवति ।। 8. छाया - तीर्थं भदन्त ! तीर्थं तीर्थकरस्तीर्थम् ? गौतम ! अर्हस्तावद् तीर्थङ्करः, तीर्थं पुनश्चतुर्वर्णः श्रमणसङ्घः
प्रथमगणधरो वा ।। 9. जिनशासनविषये च कौशलं नैपुण्यम् । ततो हि व्यवहितादिरप्यों विषयीक्रियते, यथाऽनार्यदेशवर्ती आर्द्रकुमारः श्रेणिकपुत्रेण अभयकुमारेण कौशलात् प्रतिबोधित इति ।
- यो. शा. वृत्तिः २/१६ । धर्म सं. वृत्तिः गा. २२ ।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org