________________
३२
हितोपदेशः । गाथा-२५, २६ - सम्यक्त्वस्य भूषणानि ।।
(२"तथा जिनप्रवचने इत्यनुवर्त्तते, तस्मिन्नेव वादप्रभृतिभिः प्रभावना । तत्र 'प्रभवति जैनेन्द्र शासनमात्मनैव । तस्य प्रभवतःप्रयोजकत्वं प्रभावना ।साच प्रभावकपुरुषभेदादष्टधा, न्यगादिच
पावयणी' धम्मकहीं वाई' नेमित्तिओं तवस्सी' य ।
विजा सिद्धो य कई अद्वेव पभावगा भणिया ।।१।। तत्र प्रवचनं-द्वादशाङ्गं गणिपिटकं, तदन्यापेक्षया अतिशयवदस्यास्तीति प्रावचनी, युगप्रधानागम इत्यर्थः । धर्मकथा आक्षेपणी विक्षेपणी संवेजनी निवेदनी । सा चतुर्विधापि प्रशस्याऽस्यास्तीति धर्मकथावान् । वादि-प्रतिवादि-सभ्य-सभापतिरूपायां चतुरङ्गायां संसदि प्रतिपक्षविक्षेपपुरस्सरं स्वपक्षव्यवस्थापनार्थं नियमेन वदतीति वादी । निमित्तं त्रिकालविषय-लाभालाभादिप्रतिपादकं शास्त्रम्, तद् वेत्ति अधीते वा नैमित्तिकः । तपः सकामनिर्जरारूपं विकृष्टमष्टमदृशमादि, तद् यस्यास्तीति स तपस्वी । विद्याः प्रज्ञप्तिप्रभृतयो जैनशासनाधिष्ठायिन्यः सान्निध्यमध्यासते यस्य स विद्यावान् । तथा सजीवनिर्जीवपदार्थसार्थाकर्षणपादलेपाञ्जनतिलकगुटिकावैक्रियत्वप्रभृतयः सिद्धयः, ताभिः सिद्ध्यति स्म सिद्धः । विद्यावांश्च सिद्धश्च विद्यासिद्धः । तथा कवते-गद्यपद्यादिभिः प्रबन्धैर्वर्णनं करोतीति कविः । एते प्रावचनिकाप्रभृतयोऽष्टावपि स्वप्रभावेणैव प्रभवतो भगवच्छासनस्यदेशकालौचित्येन यथायथंसाहाय्यकरणात्प्रभावकाः, तेषां कर्म प्रभावना द्वितीयं भूषणम् ।
एतञ्च सर्वत्र सम्बध्यते । स्थैर्य जिनधर्म प्रति चलितचित्तस्य परस्य स्थिरत्वापादनं स्वयं वा परतीर्थिकद्धिदर्शनेऽपि जिनशासनं प्रति निष्पकम्पता।
- यो. शा. वृत्तिः २/१६ ।। 3. तुलना - प्रभवति जैनेन्द्र शासनम्, तस्य प्रभवत: प्रयोजकत्वं प्रभावना । सा चाष्टधा प्रभावकभेदेन । यदाह -
"पावयणी धम्मकही वाई नेमित्तिओ तवस्सी अ । विज्जासिद्धो अ कई अटेव पभावगा भणिआ ।।" तत्र प्रवचनं द्वादशाङ्गं गणिपिटकम्, तदस्यास्त्यतिशयवदिति प्रवचनी युगप्रधानागमः । धर्मकथा प्रशस्याऽस्यास्तीति धर्मकथी, शिखादित्वादिन् । (“शिखादिभ्य इन्” सि० ७/२/४) वादि-प्रतिवादि-सभ्यसभापतिलक्षणायां चतुरङ्गायां सभायां प्रतिपक्षनिरासपूर्वकं स्वपक्षस्थापनार्थमवश्यं वदतीति वादी । निमित्तं त्रैकालिकं लाभा-ऽलाभादि-प्रतिपादकं शास्त्रम्, तद्वत्त्यधीते वा नैमित्तिकः । तपो विकृष्टमष्टमाद्यस्यास्तीति तपस्वी । विद्याः प्रज्ञप्त्यादयः शासनदेवताः ताः साहायके यस्य स विद्यावान् । अञ्जन-पादलेप-तिलकगुटिका-सकलभूताकर्षण-निकर्षण-वैक्रियत्वप्रभृतयः सिद्धयः, ताभिः सिद्ध्यति स्म सिद्धः । कवते गद्यपद्यादिभिः प्रबन्धैर्वर्णनं करोतीति कविः । एते प्रवचन्यादयोऽष्टौ प्रभवतो भगवच्छासनस्य यथायथं देशकालाद्यौचित्येन-साहायककरणात् प्रभावकाः तेषां कर्म प्रभावना द्वितीयं भूषणम् ।
- यो. शा. वृत्तिः २/१६/धर्म सं. वृत्ति. गा. २२ ।। 4. छाया - प्रवचनी धर्मकथी वादी नैमित्तिकस्तपस्वी च । विद्यासिद्धश्च कविः अष्टैव प्रभावका भणिताः ।। 5. तुलना-तृतीयाक्षेपणीचैकातथा विक्षेपणीपरा । अन्या संवेजनीनिर्वेजनीचेति चतुर्विधा ।। - द्वा० द्वा०९/४ ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org