________________
हितोपदेशः । गाथा-२४, सम्यक्त्वस्य लक्षणानि ।।
न किन्नरादिगेयादौ, शुश्रूषा भोगिनस्तथा । यथा जिनोक्तावस्येति, हेतुसामर्थ्यभेदतः ।।२।।
- योगबिन्दु श्लो. २५३-२५४ ।। 'शुश्रूषा - सद्धर्मशास्त्रविधया' 'धर्मरागश्च' . . चारित्रधर्मानुरागस्वरूपः 'गुरुदेवादिपूजनं' . धर्माचार्यजिनसाधर्मिकादिसमभ्यर्चनम् 'यथाशक्ति' - स्वसामर्थ्यानुरूपं विनिर्दिष्टम् ‘लिङ्ग-चिह्नम्' 'अस्य' - सम्यग्दृष्टेर्जीवस्य 'महात्मभिः-शास्त्रकारैरिति ।।२५३।। न किन्नरादिगेयादौ - किन्नरादीनां गायकविशेषाणां यद्नेयादि गीतवर्णपरिवर्ताभ्यासकथनादि श्रवणेन्द्रियाक्षेपकारि तत्र 'शुश्रूषा' श्रोतुमिच्छा ‘भोगिनः' पुरुषस्य यूनो वैदग्ध्यवतः कान्तायुक्तस्यातिशयकामिनश्च तथा - तेन प्रकारेण 'यथा जिनोक्तौ' जिनशासने 'अस्य'सम्यादृष्टे: 'इतिः' पादसमाप्तौ, कुत इत्याह ‘हेतुसामर्थ्यभेदतः' 'किन्नरादिगेयादिशुश्रूषाहेतोः सकाशाज्जिनोक्तिशुश्रूषाया हेतोः सामर्थ्यवैशिष्ट्यात् ।।२५४।।
- योग. बिं. वृत्तौ ।। लक्ष्यते ग्रन्थिभेदेन सम्यग्दृष्टिः स्वतन्त्रतः । शुश्रूषाधर्मरागाभ्यां गुरुदेवादिपूजया ।।१।। भोगिकिन्नरगेयादिविषयाधिक्यमीयुषी । शुश्रूषाऽस्य न सुप्तेशकथार्थविषयोपमा ।।२।। अप्राप्ते भगवद्वाक्ये धावत्यस्य मनो यथा । विशेषदर्शिनोऽर्थेषु प्राप्तपूर्वेषु नो तथा ।।३।। धर्मरागोऽधिको भावाद्भोगिनः स्त्र्यादिरागतः । प्रवृत्तिस्त्वन्यथापि स्यात्कर्मणो बलवत्तया ।।४।। तदलाभेऽपि तद्रागबलवत्त्वं न दुर्वचम् । पूयिकाद्यपि यद्भुङ्क्ते घृतपूर्णप्रियो द्विजः ।।५।। गुरुदेवादिपूजाऽस्य त्यागात्कार्यान्तरस्य च । भावसारा विनिर्दिष्टा निजशक्तयनतिक्रमात् ।।६।।
- सम्य० द्वात्रि० १५/१-६ ।। लक्ष्यत इति - ग्रन्थिभेदेन अतितीव्ररागद्वेषपरिणामविदारणेन । स्वतन्त्रतः सिद्धान्तनीत्या । सम्यग्दृष्टि: लक्ष्यते सम्यग्दर्शनपरिणामात्मनाऽप्रत्यक्षोऽप्यनुमीयते शुश्रूषाधर्मरागाभ्यां तथा गुरुदेवादिपूजया त्रिभिरेतैर्लिङ्गैः । यदाह - "शुश्रूषा धर्मरागश्च गुरुदेवादिपूजनम् । यथाशक्ति विनिर्दिष्टं लिङ्गमस्य महात्मभिः ।।१।।" ।।१।। भोगीति - भोगिनो यौवनवैदग्ध्यकान्तासन्निधानवत: कामिनः । किन्नरादीनां गायकविशेषाणां गेयादौ गीतवर्णपरिवर्ताभ्यासकथाकथनादौ विषयः श्रवणरस-स्तस्मादाधिक्यमतिशयं । ईयुषी प्राप्तवती । किन्नरगेयादिजिनोक्त्योहेत्वोस्तुच्छत्वमहत्त्वाभ्यामतिभेदोपलम्भात् । अस्य सम्यग्दृष्टेः शुश्रूषा भवति । न परं सुप्तेशस्य सुप्तनृपस्य कथार्थविषयः संमुग्धकथार्थश्रवणाभिप्रायलक्षण: तदुपमा तत्सदृशी असम्बद्धतत्तद्ज्ञानलवफलायास्तस्या दौर्वैदग्ध्यबीजत्वात् ।।२।। अप्राप्त इति - अस्य सम्यग्दृशः । अप्राप्ते पूर्वमश्रुते । भगवद्वाक्ये वीतरागवचने । यथा मनो धावति श्रोतुमनुपरतेच्छं भवति, तथा विशेषदर्शिनः सतः प्राप्तपूर्वेष्वर्थेषु धनकुटुम्बादिषु न धावति । विशेषदर्शनेनापूर्वत्वभ्रमस्य दोषस्य चोच्छेदात् ।।३।। धर्मराग इति - धर्मरागश्चारित्रधर्मस्पृहारूप: । अधिकः प्रकर्षवान् । भावतोऽन्तःकरणपरिणत्याः । भोगिनो भोगशालिन: । स्त्र्यादिरागतो भामिन्याद्यभिलाषात् । प्रवृत्तिस्तु कायचेष्टा तु । अन्यथापि चारित्रधर्मप्रातिकूल्येनापिव्यापारादिनास्यात् । कर्मणश्चारित्रमोहनीयस्य ।बलवत्तयानियतप्रबलविपाकतया ।।४।। तदिति - तदलाभेऽपि कथञ्चिदन्यथाप्रवृत्त्या चारित्राप्राप्तावपि । तद्रागबलवत्त्वं चारित्रेच्छाप्राबल्यं स्वहेतुसिद्धं । न नैव । दुर्वचं दुरभिधानं । यद्यस्मात्तथाविधिविषमप्रघट्टकवशात् । पूयिकाद्यपि पूयं नाम कुथितो रसस्तदस्यास्तीति पूयिकं ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org