________________
हितोपदेशः । गाथा - २४
सम्यक्त्वस्य लक्षणानि ।।
13
"मन्नइ तमेव सचं निस्संकं जं जिणेहि पन्नत्तं ।
सुहपरिणाम सव्वं कंखाइविसुत्तियारहिओ । । १ । । [श्रा. प. गाथा - ५९ ]
एवमेतेभ्यः पञ्चभ्योऽपि प्रशमादिभ्यो लक्षणेभ्यः संलक्ष्यते सम्यक्त्वम् 1 एतद्व्यतिरिक्तान्यपराण्यपि पूर्वाचार्यप्रणीतानि सम्यक्त्वलिङ्गानि श्रूयन्ते, तथाहि
14
"सुस्सूस' धम्मराओ' गुरुदेवाणं जहासमाहीए ।
वेयाचे नियमो हवंति सम्मत्तलिंगाई ।।१।। [श्रा. ध. वि. प्र. गा. ६९ ] तथा
15
"सव्वत्थ उचियकरणं गुणाणुराओ रई य जिणवयणे ।
अगुणेय मज्झत्थं सम्मद्दिट्ठिस्स लिंगाई । । २ । । [ पुष्प. गाथा - १११] ति ।। २४ ।।
२९
13. छाया - मन्यते तदेव सत्यं निःशङ्कं यज्जिनैः प्रज्ञप्तम् । शुभपरिणामः सर्वं कांक्षादिविश्रोतसिकारहितः । । ५९ ।। 14. छाया - शुश्रूषा धर्मरागो गुरुदेवानां यथा समाधौ । वैयावृत्त्ये नियमो भवन्ति सम्यक्त्वलिङ्गानि ॥ १ ।। 15. छाया - सर्वत्र उचितकरणं गुणानुरागः रतिश्च जिनवचने । अगुणेषु च माध्यस्थ्यं सम्यग्दृष्टेर्लिङ्गानि ।।२।।
अस्या गाथायाः चतुर्थपादः विविधप्रतेषु भिन्नो दृश्यते तद्यथा - दंसणपडिमा भवे एसा । - विं. विं. १० / ४ । वयपडिवत्ती भयणा । - श्रा. ध. पञ्चा.गा. ४ । सम्मद्दिट्ठिस्स लिंगाई । - प्रव. सा. ९ ।। ९२९ ।। तुलना - परमागमसुस्सूसा' अणुराओ धम्मसाहगे परमो' । जिणगुरुवेयावचे नियमो सम्मत्तलिंगाइ । सं. प्र. सम्यक्त्वाधि० गा. ६२ ।। त्रिलिङ्गे - श्रोतुमिच्छा शुश्रूषा, सद्बोधावन्ध्यनिबन्धनधर्मशास्त्रश्रवणवाञ्छेत्यर्थः । सा च वैदग्ध्यादिगुणवत्तरुणनरकिन्नरगानश्रवणरागादप्यधिकतमा सम्यक्त्वे सति भवति । यदाह “यूनो वैदग्ध्यवतः कान्तायुक्तस्य कामिनोऽपि दृढम् । किन्नरगेये तथा धर्मे चारित्रलक्षणो रागः श्रुतधर्मरागस्य तु शुश्रूषापदेनैवोक्तत्वात् । स च कर्मदोषात्तदकरणेऽपिकान्तारातीतदुर्गतबुभुक्षा क्षामकुक्षिब्राह्मणघृतभोजनाभिलाषादप्यतिरिक्तो भवति २ । तथा गुरवो धर्मोपदेशका देवा अर्हतस्तेषां वैयावृत्त्ये तत्प्रतिपत्तिविश्रामणाभ्यर्चनादौ नियमोऽवश्यंकर्त्तव्यताङ्गीकारः, स च सम्यक्त्वे सति भवतीति । तानि सम्यग्दृष्टेर्धर्मधर्मिणोरभेदोपचारात् सम्यक्त्वस्य लिङ्गानि ३ । - धर्म सं. वृत्तिः गा. ४० ।। श्री. ध. पञ्चा. श्री अभ. वृत्तिः गा. ४ ।।
-
Jain Education International 2010_02
-
धम्मराओ गुरु- देवाणं जहासमाहीए । वेयावच्चे णियमो सम्मद्दिट्ठिस्स लिंगाई । - योगश. गा. १४ वृत्तौ ।। “शुश्रूषा श्रोतुमिच्छा धर्मशास्त्रेषु गेयरागिकिन्नरगेयशुश्रूषाधिका । तथा 'धर्मरागः ' धर्माभिष्वङ्गः सामग्रीवैकल्या(त्) (त)दकरणेऽपि चेतसोऽनुबन्धः दरिद्रब्राह्मणविशेषहविः पूर्णरागसमधिकः । तथा 'गुरु- देवानां' - चैत्य-साधूनां 'यथासमाधिना' शक्त्याद्यनुरूपम्, नासद्ग्रहेण, किम् ? इत्याह - ‘वैयावृत्ये’व्यावृत्तभावे नियमः, गुणज्ञश्राद्धचिन्तामणिवैयावृत्त्यनियमाभ्यधिकः करोत्येवैतदित्यर्थः । सम्यग्दृष्टेः 'लिङ्गानि ' चिह्नानि, ग्रन्थिभेदेन तत्त्वे तीव्रभावात् । इति गाथार्थ ।। - योग श. गा. १४ वृत्तौ ।। शुश्रूषा धर्मरागश्च, गुरुदेवादिपूजनम् । यथाशक्ति विनिर्दिष्टं, लिङ्गमस्य महात्मभिः ।। १ ।।
For Private & Personal Use Only
www.jainelibrary.org