________________
२८
सम्यक्त्वस्य लक्षणानि ||
गच्छन्नपि, तथाकर्म्मपरिणतिवशादुपासितुमशक्तस्तदाराधनपरेषूत्तमसत्त्वेषु परमं प्रमोदमुद्वहन् स्वयमपि धर्म्माराधनोपायान् विविधाननुध्यायन् ममत्वरहितः सततं संसृतौ वसति । यदुक्तम् - 'नारयतिरियनरामरभवेसु निव्वेयओ वसइ दुक्खं ।
अकयपरलोयमग्गो ममत्तविसवेयरहिओ वि । । १ । । [ श्रा. प्र. गाथा - ५७]
हितोपदेशः । गाथा - २४
केचित्तु संवेगनिर्वेदयोरर्थतो विपर्ययमाचक्षते - संवेगः - संसृतिविरागः, निर्वेदः- शिवपदाभिलाषः इति ।
10
(४) तथा "भूतानुकम्पा चतुर्थं लिङ्गम्, तत्र भूताः - स्वाभाविकौपाधिकशारीरवाचनिकमानसिकाद्यनेकव्यापत्तापसन्तप्ताः प्राणिनः तेषु तद्दुःखदर्शनादपक्षपातेन प्रतीकारेच्छाऽनुकम्पा । पक्षपातेन तु कारुण्यं स्वापत्यादिषु हिंस्रसत्त्वानामपि सम्भवत्येव । साऽप्यनुकम्पा द्विविधा द्रव्यतो भावतश्च । तत्र द्रव्यतः सति सामर्थ्ये दुःखार्दितस्य देहिनः तस्माद् विमोचनम् अनुकम्पा, • भावतश्च दयार्द्रहृदयतैव । यदवाचि -
-
,
9.
"दट्ठूण पाणिनिवहं भीमे भवसायरम्मि दुक्खत्तं ।
12
अविसेस ओऽणुकंपं दुहा वि सामत्थओ कुणइ । । १ । । [ श्रा. प्र. गाथा - ५८] (५) तथाऽस्तिवादः” पञ्चमं चिह्नं सम्यग्दर्शनस्य, तत्र तत्त्वेषु जीवाऽजीवादिषु अस्तिवादःशङ्कादिपरिहारेण सर्वज्ञप्रणेतृप्रत्ययेनैव निर्विवादश्चेतः संवादः । यथा - यद्यप्यस्माकमनेकभवोपचिताज्ञानपटलावृतज्ञानालोकानां न साक्षाद् भवन्ति तथापि सन्त्येव भगवदर्हत्प्रणीतानि जीवादितत्त्वानि, उक्तं च
Jain Education International 2010_02
छाया - नारक तिर्यङ्नरामरभवेषु निर्वेदतो वसति दुःखम् ।
अकृतपरलोकमार्गः ममत्वविषवेगरहितोऽपि । । ५७ ।।
-
10. अनुकम्पा दुःखितेषु अपक्षपातेन दुःखप्रहाणेच्छा | पक्षपातेन तु करुणा स्वपुत्रादौ व्याघ्रादीनामप्यस्त्येव सा चानुकम्पा द्रव्यतो भावतश्च भवति, द्रव्यतः सत्यां शक्तौ दुःखप्रतीकारेण, भावत आर्द्रहृदयत्वेन । यो. शा. २/१५ वृत्तौ । धर्म सं. गा. ४० वृत्तौ ॥ 11. छाया - दृष्ट्वा प्राणिनिवहं भीमे भवसागरे दुःखार्त्तम् । अविशेषत अनुकम्पां द्विधापि सामर्थ्यतः करोति ।। ५८ ।। 12. अस्तीति मतिरस्येत्यास्तिकः, तस्य भावः कर्म वा आस्तिक्यम् । तत्त्वान्तरश्रवणेऽपि जिनोक्तविषये निराकाङ्क्षा प्रतिपत्ति । आस्तिक्येन हि जीवधर्मदया सम्यक्त्वं लक्ष्यते । तद्वान् हि आस्तिक इत्युच्यते । . यो. शा. २ / १५ वृत्ती । धर्म सं. गा. ४० वृत्तौ ।।
-
For Private & Personal Use Only
www.jainelibrary.org