________________
हितोपदेशः । गाथा-२४ - सम्यक्त्वस्य लक्षणानि ।।
तथाप्यत्र मिथ्याभिनिवेशोपशम एवोपशम इति यौक्तिकमिव प्रतिभाति । यतः कषाया हि चारित्रमोहनीयम्, अतस्तदुदयश्चारित्रमेवावृणोति, न पुनः सम्यग्दर्शनमपि, मिथ्याभिनिवेशोदयस्तु क्षमः सम्यक्त्वमावरीतुम्, अतस्तदुपशमः सम्यक्त्वलिङ्गम् । उक्तं च -
मिच्छाभिनिवेसस्स उ नायव्वो उवसमो इहं लिंगं ।
चारित्तमोहणीयं जेण कसाया समाइट्ठा ।।१।।[ ] . यच्चात्र तत्त्वं तत् तत्त्वविद एव विदन्ति । अतः सोऽयमुपशमः सम्यक्त्वलिङ्गम् । (२ तथा अस्यैव द्वितीयं लिङ्गम् परमपदरागः, यं "संवेगमित्यामनन्ति मुनयः । तत्र परमपदेमोक्षे, रागः-अभिलाषः, परमपदरागः । अथ किमर्थमत्रैव सम्यक्त्ववतामनुरागः ? उच्यते - सांसारिकसुखोपनिषद्भूतं हि चक्रवर्तिनाममर्त्यपतीनामनुत्तरसुराणां च सुखं तदप्यन्तर्मुखतया विभाव्यमानमाभिमानिकमौपाधिकं क्षयावसानं चेति तत्त्वतो दुःखमेव । परमपदसुखं तु न तथा । अतः सम्यग्दृशां तत्रानुरागः । उक्तं च -
'नरविबुहेसरसुक्खं दुक्खं चिय भावओ य मनंतो ।
संवेगओ न मुक्खं मुत्तूणं किंपि पत्थेइ ।।१।। [श्रा. प्र. गाथा-५६] (३)तथा भवविरागस्तृतीयं दर्शनलिङ्गम्, यस्य निर्वेद इति समये श्रुतिः । सम्यक्त्वावभासितहदयो हि दुरन्तदुःखदौर्गत्यरोगशोकाद्यातङ्कसङ्कलितस्तत्प्रतीकारक्षमं जैनं धर्मं सम्यगव
भवति, विदिततत्त्वत्वादिति ।।५७।। तथा दृष्ट्वा प्राणिनिवहं जीवसङ्घातं, क्व ? भीमे भयानके भवसागरे संसारसमुद्रे, दुःखात शारीरमानसैर्दुःखैरभिभूतमित्यर्थः, अविशेषतः सामान्येनात्मीयेतरविचाराभावेनेत्यर्थः । अनुकम्पां दयां द्विधापि द्रव्यतो भावतश्च, द्रव्यतः प्रासुकपिण्डादिदानेन, भावतो मार्गयोजनया, सामर्थ्यतः सर्वशक्त्यनुरूपं करोतीति ।।५८ ।। मन्यते प्रतिपद्यते तदेव सत्यं निःशवं शङ्कारहितं यज्जिनैः प्रज्ञप्तं यत् तीर्थकरैः प्रतिपादितं, शुभपरिणामः सन् साकल्येनानन्तरोदितसमस्तगुणान्वितः । सर्वं समस्तं मन्यते, न तु किञ्चिद् मन्यते किञ्चिद् नेति, भगवत्यविश्वासायोगात् पुनरपि स एव विशिष्यते । किं विशिष्टः सन् ? कांक्षादिविस्रोतसिकारहितः, कांक्षा अन्योन्यदर्शनग्रह इत्युच्यते, आदिशब्दाद् विचिकित्सापरिग्रहः, विस्रोतसिका तु संयमशस्यमङ्गीकृत्याध्यवसायसलिलस्य विस्रोतोगमनमिति ।।५९।। 6. संवेगो मोक्षाभिलाषः, सम्यग्दृष्टिर्हि नरेन्द्रसुरेन्द्राणां विषयसुखानि दुःखानुषङ्गाद् दुःखतया मन्यमानो मोक्षसुखमेव
सुखत्वेन मन्यते अभिलषति च। - यो. शा. २/१५ वृत्तौ । धर्म सं. गा. ४० वृत्तौ ।। 7. छाया - नरविबुधेश्वरसौख्यं दुःखमेव भावतः चमन्यमानः ।संवेगतो नमोक्षं मुक्त्वा किञ्चित् प्रार्थयते ।।५६।। 8. निवेदो भववैराग्यम्, सम्यग्दर्शनी हि दुःखदौर्गत्यगहने भवकारागारे कर्मदण्डपाशिकैस्तथा कदीमानः प्रतिकर्तुमक्षमो ममत्वरहितश्च दुःखेन निविण्णो भवति । - यो. शा. २/१५ वृत्तौ । - धर्म सं. गा. ४० वृत्तौ ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org