________________
हितोपदेशः । गाथा-२४ - सम्यक्त्वस्य लक्षणानि ।।
एतैः प्रशमादिभिर्लक्षणैः सम्यक्त्वं जानीत इति योगः । तत्र यद्यपि सम्यक्त्वं शुभात्मपरिणामत्वेन चर्मचक्षुषां दुर्लक्षम्, तथाप्येभिर्लक्षणैर्लक्षयेत् - (मिथ्यात्वमोहनीयोदयवशादयथावस्थितार्थप्रतीतिर्मिथ्या, तद्रूपोऽभिनिवेशः-आग्रहो मिथ्याभिनिवेशः, तस्योपशमः सम्यक्त्वलिङ्गम् । अत्र च यद्यपि केचन क्रूराणामनन्तानुबन्धिक्रोधादिकषायाणां क्षयोपशमाद् वा तद्विपाकदर्शनाद् वा कृतापराधेष्वपि प्राणिषु यः कषायानुदयः स उपशमः, स च सम्यक्त्वलिङ्गमित्याहुः । ब्रुवते च -
पयईइ कसायाणं नाऊणं वा विवागमसुहं ति । अवरद्धे वि न कुप्पइ, उवसमओ सव्वकालं पि ।।१।। [श्राव. प्र.गा. ५५] इत्यादि ।
2. तुलना - तं उवसमसंवेगाइएहि लक्खिजई उवाएहिं । आयपरिणामरूवं बज्झेहिं पसत्थजोगेहिं ।।५५ ।।
पञ्चभिर्लक्षणैलिङ्गैः परस्थं परोक्षमपि सम्यक्त्वं सम्यगुपलक्ष्यते । लिङ्गानि तु शम-संवेग-निर्वेदाऽनुकम्पा ऽऽस्तिक्यस्वरूपाणि ।।
- योगशास्त्र वृ. २/१५ ।। 3. तुलना - एत्थ य परिणामो खलु जीवस्स सुहो उ होइ विन्नेओ । किं मलकलंकमुक्कं, कणगं भुवि झामलं होइ? ।।
___ - श्राव. प्र. गा. ५४ ।। 4. शमः प्रशमः क्रूराणामनन्तानुबन्धिनां कषायाणामनुदयः । स च प्रकृत्या वा कषायपरिणते: कटुफलावलोकनाद्वा भवति ।
- यो. शा. २/१५ वृत्तौ ।। 5. छाया - प्रकृत्या वा कर्मणां विज्ञाय वा विपाकमशुभमिति । अपराद्धयेऽपि न कुप्यति उपशमतः सर्वकालमपि
।।५५ ।। तुलना - “पयईए" इत्यादयः पञ्च आर्या उमास्वातिविरचितेन प्रसिद्ध श्रावकप्रज्ञप्तिप्रकरणे, हरिभद्रसूरिविरचिते धर्मसंग्रहण्यादौ तथा विंशतिविंशिकायां, हेमचन्द्रसूरिविरचिते योगशास्त्रवृत्तौ चोपलभ्यन्ते ।। तद्यथा - श्राव. प्र. - गा. ५५-५९ । धर्मसंग्र. गा. ८०८-८१२ । वि. वि. ६ - गा. १०-१४ ।। यो. शा. - २/१५ वृत्तौ ।। तत्र श्रावकप्रज्ञप्तिप्रकरणस्य हरिभद्रसूरिविरचितं व्याख्यानमित्थमुपलभ्यतेप्रकृत्या वा सम्यक्त्वाणुवेदकजीवस्वभावेन वा कर्मणां कषायनिबन्धानां विज्ञाय वा विपाकमशुभमिति ।। तथाहि - कषायाविष्टोऽन्तर्मुहूर्तेन यत्कर्म बध्नाति तदनेकाभिः सागरोपमकोटाकोटिभिरपि दुःखेन वेदयतीत्यशुभो विपाकः । एतत् ज्ञात्वा किं ? अपराद्ध्येऽपि न कुप्यति, अपराध्यत इति अपराद्ध्यः प्रतिकूलकारी तस्मिन्नपि कोपं न गच्छत्यपशमतः उपशमेन हेतना सर्वकालमपि यावत्सम्यक्त्वपरिणाम इति ।।५५।। तथा नरविबुधेश्वरसौख्यं चक्रवर्तीन्द्रसौख्यमित्यर्थः अस्वाभाविकत्वात् कर्मजनितत्वात्सावसानत्वाञ्च दुःखमेव भावतः परमार्थतो मन्यमानः संवेगतः संवेगेन हेतुना न मोक्षं स्वाभाविकजीवरूपकर्मजमपर्यवसानं मुक्त्वा किञ्चित्प्रार्थयतेऽभिलषतीति ।।५६ ।। नारक-तिर्यङ्-नराऽमरभवेषु सर्वेष्वेव निर्वेदतो निवेदेन कारणेन वसति दुःखम् । किंविशिष्टः सन् ? अकृतपरलोकमार्गः, अकृतसदनुष्ठान इत्यर्थः । अयं हि जीवलोके परलोकानुष्ठानमन्तरेण सर्वमेवासारं मन्यते । ममत्वविषवेगरहितोऽपि, तथाहि - अयं प्रकृत्या निर्ममत्व एव
For Private & Personal Use Only
_Jain Education International 2010_02
www.jainelibrary.org