________________
हितोपदेशः । गाथा-२४ - सम्यक्त्वस्य दूषणानि ।।
___(५तत्र संस्तवः परिचयः । स च एकावसथाऽवस्थान-स्निग्धालाप-भोजन-वस्त्रादिदानलक्षणः । सोऽपि तैः सहात्यन्तमुपचीयमानो मलिनयत्येव दर्शनम्, यतः सन्ततमेकत्रावस्थानात् तत्प्रक्रियाश्रवण-तत्क्रियाकलापविलोकनादिना अनादिभवाभ्यस्ते मिथ्यात्ववर्त्मनि सुखमेवावतरति मतिः प्राणिनाम्, न च कदाचिदवसरे प्रक्रान्तजिनमतोपहासेष्वपि तेषु तदत्यन्तपरिचयादुत्पन्नदाक्षिण्यस्तत्पक्षप्रतिक्षेपेण स्वपक्षव्यवस्थापनेऽप्यलम्भूष्णुर्भवति । अतः कुलाङ्गनानामिव पणाङ्गनाभिः सह नोचितः परिचयोऽपि सम्यग्दृशां मिथ्यादृग्भिरिति ।
तस्मादेतान् शङ्कादीन् पञ्चापि दोषान् सम्यग्दर्शनी यत्नतः परिहरेत् । कथम्भूतान् ? 'दर्शनदर्पणघनसमयपवनप्रतिमान्' । तत्र जीवाजीवादिवस्तुतत्त्वप्रतिबिम्बनक्षमत्वेन दर्शनमेव दर्पण: आत्मदर्शनः तस्य घनसमयपवनप्रतिमान् प्रावृट्कालानिलतुल्यान् । यथा हि पयोदपवनस्य स्पर्शमात्रेणैव सुनिर्मलोऽपि दर्पणः क्षणान्मलीमसतामाकलयति, एवं शङ्कादिभिः सम्यक्त्वमपीति
।।२३।।
साम्प्रतं सम्यक्त्वस्यैव प्रशमादीनि पञ्च लक्षणानि व्याचिख्यासुराह -
'मिच्छाभिणिवेसोवसम-परमपयराग'-भवविरागेहिं । भूयाणुकंप-तत्तस्थिवायओ' मुणह सम्मतं ।।२४।।
7. अवसथ पु. (अव+सो+कथन्) । आवसथ पु. आवसन्ति अस्मिन् इति आवसथः, “उपसर्गाद् वसः" (उणा.
२३३) इति अथः अगारार्थे । अभि. चि. श्लो. ९९१ । आवसथ पु. आवसन्ति अस्मिन् इति आवसथः, छात्राणां व्रतिनां च वेश्मनि ।
- अभि. चि. श्लो. ९९४ ।। गाथा-२४ 1. तुलना - शम-संवेग-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्यलक्षणैः ।
____लक्षणैः पञ्चभिः सम्यक् सम्यक्त्वमुप-लक्ष्यते ।। - यो. शा. २/१५ ।। लक्खिज्जइ सम्मत्तं हिययगयं जेहि ताइं पंचेव । उवसमें संवेगो' तह निव्वेय' णुकंप अत्थिक्कं ।।१।।। -सम्बो० प्र. सम्यक्त्वा . गा. ७३ ।। उवसम' संवेगोऽवि य निव्वेओ तह य होइ अणुकंपा । अत्थिक्कं चिअ एए सम्मत्ते लक्खणा पंच ।।१।।
- प्र. सारो. ९३६ ।। सुहावहा कम्मखएण खंती, संवेग णिव्वेय तहाऽणुकंपा । अत्थित्तभावेण समं जिणिंदा, सम्मत्तलिंगाइमुदा-हरंति ।।१।।
- मू. शु. प्र. गा. १०।। उवसम संवेगो वि य निव्वेओ वि य तहेव अणुकंपा । अत्थिक्कं च एव तहा सम्मत्ते लक्खणा पंच ।।१।।
- सम्य. प्र. गा. २५३ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org