________________
हितोपदेशः । गाथा-२३ - सम्यक्त्वस्य दूषणानि ।।
तुल्येऽपि जीवत्वे एके भव्या अपरे त्वभव्याः ?' इति । यदि वा 'किमयं जीवो नित्योऽनित्यो नित्यानित्यो वा, सर्वगतोऽसर्वगतो वा, सप्रदेशोऽप्रदेशो वा' ? इत्यादि । सर्वविषया च - ‘अस्ति नास्ति वा धर्मः'? 'यदि वा इदं द्वादशाङ्गमपि गणिपिटकं तावत् प्राकृतभाषोपनिबद्धमतो यदि पुनरेतत्प्रणेतारोऽपि प्राकृतपुरुषा एव भविष्यन्ति, ततः कथं तदुक्तं यौक्तिकमपि प्रमाणं स्याद्' ? इत्यादि । इयं च द्विविधापि भगवदर्हत्प्रणीततत्त्वाऽप्रत्ययरूपा शङ्का कलङ्कलेखेव शशिनं मलिनयत्येव सम्यग्दर्शनम् । न च स्वमतिमान्द्यादिदोषादनवबुध्यमानेऽपि गम्भीरेऽर्हद्वचसि संशयः कर्तुमुचितः । उक्तं च -
'कत्थइ मइदुब्बल्लेण तब्विहाऽऽयरियविरहओ वा वि । णेयगहणत्तणेण य नाणावरणोदएणं च ।।१।। हेऊदाहरणासंभवे य सइ सुट्ठ जं न बुझिजा । सवण्णुमयमवितहं तहावि तं मत्रए मइमं ।।२।। अणुवकयपराणुग्गहपरायणाजंजिणा जगप्पवरा ।
जियरागदोसमोहा य नऽनहावाइणोतेणं ।।३।।ति। [संबोधप्र. ध्यानाधिकार-४८-५०] (२'काङ्क्षणं-काङ्क्षा अन्यान्यदर्शनाभिलाषः, शैवसौगतादिदर्शनानामप्यर्हद्दर्शनसाम्येनैवावस्थापनम् । इयमपि द्विविधा-देशतः सर्वतश्च । तत्र देशतः क्वचित् शौद्धोदनीयाद्येकतरसिद्धान्ते किमपि मनोनिग्रह-करुणादिकमुपवर्ण्यमानमाकर्ण्य चिन्तयति यथा - ईदृग्भणितिभङ्गीसङ्गतमिदं दर्शनमर्हद्दर्शनान्नावमम्, सर्वविषया च शाक्यौलोक्यकापिलाक्षपादादिषु निखिलेष्वपि दर्शनेषु प्राणिदयैव धर्मरहस्यम्, ध्यानाञ्च सिद्धिरित्यादिकं स्वदर्शनसंवादि किमप्युपदिश्यमानमुपश्रुत्य विकल्पयति यथा - सर्वाण्यपि दर्शनानि सर्वविद्दर्शनसमानान्येवेति । इयमपि द्विरूपापि सर्वज्ञोपज्ञसमयानाश्वासरूपा सम्यक्त्वं दूषयत्येव । उक्तं च -
4. छाया - कुचिद् मतिदौर्बल्येन तद्विधाचार्यविरहतश्चापि । ज्ञेयगहनत्वेन च ज्ञानावरणोदयेन च ।।१।। हेतूदाहरणासम्भवे च सति सुष्टु यद् न बुध्येत । सर्वज्ञमतमवितथं तथापि तञ्चिन्तयेद् मतिमान् ।।२।।
अनुपकृतपरानुग्रहपरायणा यद् जिना जगप्रवराः । जितरागद्वेषमोहाश्च नान्यथावादिनस्तेन ।।३।। 5. तुलना - ऐहलौकिकपारलौकिकेषु विषयेष्वाशंसा काङ्क्षा । - तत्त्वा. भा. ७/१८ ।।
कंखा अण्णण्णदंसणग्गहो (काङ्क्षा अन्यान्यदर्शनग्रहः) । - तत्त्वा. सि. वृ. ७/१८ ।। काङ्क्षणम् अन्यान्यदर्शनग्रहः । - धर्म. सं. गा. ४२ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org