________________
हितोपदेशः । गाथा-२२-२३, सम्यक्त्वस्य प्रभावम् ।। सम्यक्त्वस्य दूषणानि ।।
यत एवंप्रभावमिदं सम्यग्दर्शनमतः किं विधेयम् ? इत्याह -
संकाइदोसरहिए पसमत्थिजाइगुणगणोवेए ।
मुक्खतरुमूलबीए ता सम्मत्ते समुज्जमह ।।२२।। यद्येवंप्रभावमिदं तस्मादस्मिन्नेव सम्यक्त्वे सविशेषोद्यमं कुरुध्वम् । किंविशिष्टे ? शङ्कादिदोषरहिते शङ्कादयो वक्ष्यमाणा ये पञ्च दोषास्तैर्निर्मुक्त । तथा प्रशमस्थैर्यादिगुणगणोपेते प्रशमादीनि वक्ष्यमाणानि पञ्च लक्षणानि, स्थैर्यादीन्यपि पञ्च वक्ष्यमाणानि भूषणानि, तैरुपेते । तथा मोक्षतरुमूलबीजे परमपदपादपस्यावन्ध्यबीजे । एवंविधे सम्यग्दर्शने यतध्वमिति ।।२२।। यथोद्देशं निर्देश इति न्यायात् प्रथमं शङ्कादिदोषानेवाह -
संका' कंख' विगं(गि)छा परतित्थिपसंस संथवे दोसे ।
दसणदप्पणघणसमयपवणपडिमे परिहरिजा ।।२३।। एतान् - शङ्कादीन् पञ्च दोषान्, सम्यक्त्वधरः परिहरेत् । तत्र सर्वज्ञोपज्ञेषु जीवाजीवादिपदार्थेषु निबिडनिजज्ञानावरणोदयदोषादनवबुध्यमानेषु "संशयकरणं-शङ्का - किमेते जीवादयो यथैवोच्यन्ते तथैव उतान्यथा ? ति । इयं च द्विविधा देशतः सर्वतश्च । तत्र देशतः ‘कथं नाम गाथा-२३ 1. तुलना - योगशास्त्रवृत्तिः २/१७ । प्रव. सारो. गा. ९३३ । सम्बो. प्र. सम्यक्त्वाधि. गा. ३८ ।
मूलशुद्धि प्र. गा. ९ । सम्य. प्र. गा. २५१ । तत्त्वा. सि. ७/१८ । धर्म बि. ३/२१-१५४ । धर्म सं. गा.
४२ वृत्तौ ।। 2. तुलना - सम्मत्तस्सइयारा संका कंखा तहेव वितिगिच्छा । परपासंडपसंसा संथवमाई य नायव्वा ।
संसयकरणं संका कंखा अन्नन्नदंसणग्गाहो । संतमि वि वितिगिच्छा सिज्झिज न मे अयं अट्ठो ।। परपासंडपसंसा सक्काइणमिह वन्नवाओ उ । तेहिं सह परिचओ जो स संथवो होइ नायव्यो ।।
- श्राव. प्र. गा. ८६-८७-८८ ।। संका कंखा य तहा वितिगिच्छा अन्नतित्थियपसंसा । परतित्थिओवसेवणमइयारा पंच सम्मत्ते ।।
- प्रव. सा. गा. २७३ ।। शङ्कादीन् पञ्च दोषान् दृश्यतां - प्रव. सा. गा. २७३ वृत्तौ ।। 3. तुलना - संशयकरणं शङ्का (आव.) तत्त्वार्थसिद्धसेनीयावृत्तिः ७/१८ ।। शङ्का - सन्देहः-योगशास्त्रवृत्तिः
२/१७ ।। शङ्कनं शङ्का - सन्देहः - धर्मसंग्रहवृत्तिः गा. ४२ ।। अधिगतजीवाजीवादितत्त्वस्यापि भगवतः शासनं भावतोऽभिप्रपन्नस्यासंहार्यमतेः सम्यादृष्टेरर्हतोक्तेषु अत्यन्तसूक्ष्मेष्विन्द्रियेषु-केवलागमगम्येष्वर्थेषु यः सन्देहो भवत्येव स्यादिति सा शङ्का ।।
- तत्त्वार्थसिद्धसेनीयावृत्तिः ७/१८ ।।
Jain Education International 2010_02
.
For Private & Personal Use Only
www.jainelibrary.org