________________
हितोपदेशः । गाथा-२०, २१ - सम्यक्त्वस्य प्रभावम् ।।
आरूढाः । क्व ? दर्शनमेव संसृतिसरित्पतिसमुत्तारक्षमत्वेन यानपात्रमिव तस्मिन् । किंविशिष्टे ? दृढबन्धे निश्चले, पक्षे निर्विवरे । स्पृष्टसम्यग्दर्शनानां हि उपार्द्धपुद्गलपरावर्त्तमात्र एव संसारः । उक्तं च -
अंतोमुहुत्तमित्तं पि फासियं हुन्ज जेहिं सम्मत्तं ।
तेसिं उबड्डपुग्गलपरियट्टो चेव संसारु ॥१॥त्ति [नवतत्त्व प्र. गा. ५३] अनन्तानन्तपुद्गलपरावर्त्तप्रमितभवार्णवापेक्षया उपार्द्धपुद्गलस्य गोष्पदरूपत्वादिति ।।१९।। किञ्च -
अइदुक्करं पि चरणं न विणा सम्मं सिवं पसाहेइ ।
दंसणमसहायं पि हु घडिज मुक्खाय जं भणियं ।।२०।। चरणं चारित्रं सर्वविरतिरूपम्, अतिदुष्करमपि तीव्रतपःकष्टानुष्ठानसौष्ठवसङ्गतमपि 'सम्म विणा' सम्यक्त्वमन्तरेण शिवं मोक्षं न प्रसाधयति, दर्शनविरहितस्य हि चरणस्य भावचारित्रत्वानुपपत्तेः । द्रव्यचारित्रं तु विशिष्टक्रियाबलाद् दददपि स्वर्गादिसुखानि अभव्यानामिव शिवप्रसाधकं न भवति । यदि पुनर्दर्शनमपि चरित्रविरहितमेवमेव स्यादित्याशङ्कयाह-दर्शनं सम्यक्त्वम्, असहायमपि व्यवहारिकचारित्रविनाकृतमपि मोक्षाय परमपदाय घटते(टेत)समर्थं भवेत् । कदाचिदिदं काल्पनिकमपि स्यादिति निरसिसिषुराह 'जं भणियम्' यत्-यस्माद्, भणितमेतदेव भगवद्भद्रबाहुस्वामिपादैः ।।२०।। कथम् ? इत्याह -
भट्टे[ण] चरित्ताओ सुट्टयरं दंसणं गहेयव्वं ।
सिझंति चरणरहिया दंसणरहिया न सिझंति ।।२१।। [आव. नि. ११७३] चरित्रात् व्यावहारिकसंयमाद्, भ्रष्टेन परिपतितेन चरित्रधात्रीधरशिरःपरिसरतस्तदावरणकर्मणा नन्दिषेणादिवत् पर्यस्तेन, दर्शनं सम्यक्त्वं शुद्धयतिशयेन ग्रहीतव्यम् अङ्गीकार्यम् । किम् ? इत्यत आह-चरणरहिता: व्यावहारिकचारित्रविनाकृता अपि सिद्ध्यन्ति सिद्धिमध्यासते मरुदेवादिवत् । दर्शनरहितास्तु तीव्रव्रतभृतोऽपि निह्नवादिवन सिद्ध्यन्तीति ।।२१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org