________________
हितोपदेशः । गाथा-१८, १९ - सम्यक्त्वस्य प्रभावम् ।।
किञ्च-(६)निधिरिदं सम्यग्दर्शनम्, केषां? 'ज्ञानचरणरत्नानाम्' ज्ञानं मत्यादिपञ्चभेदम्, 'चरणं पञ्चाश्रवविरमणादिसप्तदशविधम्, ज्ञानचरणे एव रत्नानि, तेषां निधिः-सेवधिः । यथा हि रत्ननिधिः परमप्रयत्नेन परिपाल्यते एवं दर्शनमपि ज्ञानचरणरत्नपरमनिधिकल्पमनल्पप्रयत्नपुरस्सरं पुरुषेण रक्षणीयमिति गाथाद्वयार्थः ।।१६।।१७।। पुनः सम्यक्त्वस्यैव प्रभावमुद्भावयन्नाह -
पम्हसइ मुक्खमग्गं तावञ्चिय निबिडमोहतिमिरोहो ।
सम्मत्तचित्तभाणू न जा पयत्थे पयासेइ ।।१८।। मोहः मिथ्याज्ञानम्, स एव विवेकलोचनलुम्पनप्रवणत्वेन तिमिरमिव, तस्य ओघः समूहः, निबिडः दुर्भेदः, स च तावदेव मोक्षमार्ग निर्वृतिवर्त्म 'पम्हसइ' प्रमाटिं, यावत् सम्यक्त्वमेव मिथ्यान्धकारतिरस्कारपरत्वेन चित्रभानुः आदित्यः, स पदार्थान् जीवाऽजीवादीन्, न प्रकाशयति न स्पष्टयति । 'उदिते तु पदार्थप्रकाशनपरे दर्शनभास्करे प्रगट एव मोक्षमार्ग' इति ।।१८।। किञ्च -
वित्थिनो वि ह तिनो भवऽत्रवो गोपयं व नणु तेहिं ।
आरूढा दढबंधे जे दंसणजाणवत्तम्मि ।।१९।। भव एव जन्मजरामरणादिजलपटलपरिकलितत्वेनार्णव इव । किंविशिष्ट: ? विस्तीर्णः अलब्धपरपारः । एवंविधोऽपि भवार्णवस्तैर्गो:पदवल्लीलयैव तीर्णः । ये किम् ? ये
2. मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानम् ।
___ - तत्त्वा० सू० १/९ ।। 3. पंचासवा विरमणं, पंचिंदिय निग्गहो कसायजओ । दंडत्तयस्स विरइ, सत्तरसहा संजमो होइ ।
__ - प्रव० सा० गा. ५५४ ।। अथ संयममाह - ‘पंचासवेत्यादि, आश्रूयते-उपाय॑ते कर्म एभिरित्याश्रवाः-अभिनवकर्मबन्धहेतवः प्राणातिपात-मृषावादा-ऽदत्तादान-मैथुन-परिग्रहलक्षणा: पञ्च, तेभ्यो विरमणं-विनिवर्तनम्, इन्द्रियाणि स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्रलक्षणानि पञ्च, तेषां निग्रहो-नियन्त्रणम्, स्पर्शादिषु विषयेषु लाम्पट्यपरिहारेण वर्तनम्; कषायाः ? क्रोध-मान-माया-लोभलक्षणाश्चत्वारस्तेषां जयः-अभिभवः, उदितानां विफलीकरणेन अनुदितानां चानुत्पादनेन, दण्ड्यते-चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डा:-दुष्प्रयुक्ता मनोवाक्कायास्तेषां त्रयं दण्डत्रयम्, तस्य विरतिः-अशुभप्रवृत्तिनिरोधः, एष सप्तदशविधः संयमो भवति ।
- प्रव० सा० ।। गा. ५५४ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org