________________
हितोपदेशः । गाथा - १६, १७ - रूपकषट्केन सम्यक्त्वस्योपवर्णनम् ।।
प्रशाखासंशोभितत्वेन विविधाभिग्रहललितदलपटलपरिकलितत्वेन विकस्वरातिशयसुमनोमनोहरत्वेन स्वर्ग-मोक्षसुखफलत्वेन द्रुम इव द्रुमः, तस्य सम्यक्त्वं मूलम् । यथा हि बलवति मू द्रुमस्य स्कन्धाद्युपचयः, एवं धर्म्मस्यापि सुदृढे सम्यक्त्वे महाव्रताद्युत्तरोत्तरविशेषफलावाप्तिः । तथा (२) सुगतिनगरवरद्वारम्' सुगतिर्मोक्षलक्षणा सैव अकुतोभयनिवाससुखसङ्गतत्वेन नगरमिव नगरम् तस्य सम्यग्दर्शनं द्वारम् । विना हि द्वारं महानगरे यथा न सुकरः प्रवेशः, एवं दर्शनमन्तरेण निर्वृतिनगर इति ।
तथा (३) अतिसुदृढप्रतिष्ठानं जिनप्रवचनयानपात्रस्य', जिनप्रवचनं-जिनागमः, स एव गम्भीरभवार्णवसन्तरणप्रवणत्वेन यानपात्रमिव । तस्य सम्यग्दर्शनं सुदृढप्रतिष्ठानम् । यथाहि - प्रतिष्ठानस्य काष्ठविशेषस्याधारेण सकलमपि यानपात्रं बलवत् कार्यकारि च भवति, एवं जिन प्रवचनमपि सम्यक्त्वाधारेणेति ।
१९
तथा (४) विनयादिगुणगणानामाधारः' सम्यक्त्ववासिते हि पुंसि क्रमेण विनयादयो गुणगणाः साधारत्वेन सावष्टम्भाः सम्भवन्ति । के च केषामाधारः ? उर्वरेव सस्यानाम् । स्थाने चात्र उर्वराशब्दस्योपादानम् । सर्वसस्याधारा हि भूमिरुर्वरा, न खलु सामान्यभूमात्रमाधारमधिकृत्य सर्वशस्योत्पत्तिर्भवति, एवं मिथ्यादृष्टौ विशिष्टविनयादिगुणगणानामिति ।
(4)6
तथा 'अमृतस्य भाजनम्' अमृतं - मोक्षस्तस्य भाजनं स्थानम् । यथा हि अमृतस्य पीयूषस्य विशिष्टं मणिमयादिभाजनमाधेयं भवति एवमजरामरत्वादिगुणयोगसान्वयाभिधानस्यामृतस्य निरुपमसहजानन्दात्मनो मोक्षसुखरसस्य सम्यक्त्वमेवानुपहतं भाजनमिति ।
पइट्ठाणं - प्रतिष्ठते प्रासादोऽस्मिन्निति प्रतिष्ठानं पीठम्, ततः प्रतिष्ठानमिव प्रतिष्ठानम्, यथा पृथ्वीतलगतगर्त्तापूरकरहितः प्रासादः सुदृढो न भवति, तथाधर्महर्म्यमपि सम्यक्त्वरूपप्रतिष्ठानं विना निश्चलं न भवेदिति ३ । आहारो त्ति आधारः यथा धरातलमन्तरा निरालम्बं जगदिदं न तिष्ठति, एवं धर्मजगदपि सम्यक्त्वलक्षणाधारव्यतिरेकेण न तिष्ठेदिति ४ ।
भायाणं ति भाजनं पात्रमित्यर्थः, यथा पात्रविशेषं विना क्षीरादि वस्तु विनश्यति, एवं धर्मवस्त्वपि सम्यक्त्वभाजनं विना ५ ।
निहि त्ति निधिः यथा हि निधिव्यतिरेकेण महार्हमणि- मौक्तिक - कनकादि द्रव्यं न प्राप्यते, तथा सम्यक्त्वनिधानमन्तरा चारित्रधर्मरत्नमपि ६ ।। • धर्म सं. अधि. २ श्लो. २२ टीका ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org