________________
हितोपदेशः । गाथा-१६, १७ - रूपकषट्केन सम्यक्त्वस्योपवर्णनम् ।।
इयं रुचिरुत्पद्यते, सा च सम्यक्त्वम् । ___ इत्थं सामान्येन सम्यक्त्वस्य स्वरूपमभिधाय साम्प्रतं सर्वव्यापकं तस्यैव स्वरूपान्तरमाह
"सुहायपरिणामरूवं' तद्धि सम्यक्त्वं प्रशस्तसम्यक्त्वमोहनीयकर्माणुवेदनोपशमक्षयसमुत्थं प्रशमसंवेगादिलिङ्गं शुभात्मपरिणामरूपम् । तथा चागमः -
18"से य सम्मत्ते पसत्थसम्मत्तमोहणिजकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पण्णत्ते" त्ति गाथार्थः ।।१५।। साम्प्रतं समयोक्तेन रूपकषट्केन सम्यक्त्वमुपवर्णयितुं गाथाद्वयमाह -
धम्मदुमस्स मूलं सम्मत्तं सुगइनयरवरदारं । अइसुदिढपइट्ठाणं जिणपवयणजाणवत्तस्स ।।१६।। विणयाइगुणगणाणं आहारो उव्वर व्व सस्साणं ।
अमयस्स भायणं नाणचरणरयणाण किंच निहीं ।।१७।। (१)धर्म एव तुङ्गमहाव्रताणुव्रतस्कन्धबन्धबन्धुरत्वेन चरणकरणगुणव्रतशिक्षाव्रतादिशाखा
17. तुला - तत्त्वार्थश्रद्धानं सम्यक्त्वस्य कार्य, सम्यक्त्वं तु मिथ्यात्वक्षयोपशमादिजन्यो रुचिरूप आत्मपरिणामविशेषः ।।
- श्राव. ध. पञ्चा. गा. ३ वृत्तौ ।। तं उवसमसंवेगाइएहिं लक्खिज्जई उवाएहिं आयपरिणामरूवं बज्झेहिं पसत्थजोगेहिं ।। - श्राव. प्र. गा. ५३।। 18. से य सम्मत्ते'त्ति पाठो आवश्यकसूत्रे । ६/३६ ।। तथा श्रावकधर्मपञ्चाशके गा.३ - अभयदेवसूरिटीकायाम् ।। गाथा-१६-१७ 1. तुला - मूलं दारं पइट्ठाणं आहारों भायणं निहीं ।
दुछक्कस्सावि धम्मस्स, संमत्तं परिकित्तिअं ।।१।। - प्रव. सारो. ९४० ।। तत्थ मूलंमहादुम्मस्सेव,दारंसपागारमहानगरस्सेव, पइट्ठाणं तिपेढं मन्नइतंपुणजहा पासायस्स, आधारोजहाधरणी सव्वपयत्थाणं, भायणं पहाणदव्वाणं पिव, निहाणंसुवनाइ रयणाणं पिव, तहा सम्मत्तजुत्तस्स, चेवसव्वावि किरिया सहल त्ति ।।
- श्रा. ध. पञ्चा. चू. गा. २ टीका ।। षड्भावनायां-द्विषट्कस्यापिद्वादशभेदस्यापि पञ्चाणुव्रत-त्रिगुणव्रत-चतुःशिक्षाव्रतरूपधर्मस्य चारित्रविषयस्य इदं सम्यक्त्वं मूलमिव मूलं कारणमित्यर्थः, परिकीर्तितं जिनैरिति सर्वत्र सम्बन्धः । यथा मूलरहितः पादपः पवनकम्पितस्तत्क्षणादेव निपतति, एवं धर्मतरुरपि सम्यक्त्वहीनः कुतीर्थिकमतान्दोलितः । द्वारमिव द्वारं प्रवेशमुखमितिभावः १ । यथा ह्यकृतद्वारं नगरं सन्ततप्राकारवलयवेष्टितमप्यनगरं भवति, जनप्रवेशनिर्गमाभावात् । एवं धर्मपुरमपि सम्यक्त्वद्वारशून्यमशक्याधिगमं स्यादिति २ ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org