________________
हितोपदेशः । गाथा - १५
1
सम्यक्त्वस्य स्वरूपम् ॥
अस्ति कश्चित् सकलत्रिभुवनभवनोदरविवरवर्त्तिस्वभाव-देश-काल-विप्रकृष्टेतरपदार्थसार्थावलोकनसमर्थसंविदङ्गनालिङ्गितः पुमान् । अनुपदेशालिङ्गाविसंवादिचन्द्रार्कग्रहणाद्युपदेशदायित्वात्, यो यो यद्विषये अनुपदेशालिङ्गाविसंवाद्युपदेशदायी स स तत्साक्षात्कारी दृष्टः, यथा - स्मदादिः स्वयमनुभूतेऽर्थे, तथा चायम्, तस्मात् तथेति । अत्र च सर्वज्ञसाधकप्रमाणप्रस्तावे सुबहु वक्तव्यम्, तच्च ग्रन्थगौरवभीरुभिर्नादृतम् ।
एवंविधेन भगवता श्रीसर्वज्ञेन प्रणीतेषु तत्त्वेषु रुचिः सम्यक्त्वम्, सा च रुचिर्जीवस्य कथमुन्मीलति ? इत्याह - 'मिच्छत्तहेउविरहा' मिथ्यात्वहेतुविरहात् । तत्र जीवाजीवादीनामयथावस्थिता प्रतीतिर्मिथ्या, तद्भावो मिथ्यात्वम् । तच्च पञ्चप्रकारम्, तद् यथा
अभिग्गहियं अभिग्गहियं तह अभिणिवेसियं चेव ।
संसइयमणाभोगं मिच्छत्तं पंचहा होइ ।।१।। [ पञ्चसं. गा. १८६ ]
१७
तत्राभिग्रहिकं पाषण्डिनां स्वस्वशास्त्रनियन्त्रितविवेकालोकानां परपक्षप्रतिक्षेपदक्षाणां भवति । अनाभिग्रहिकं तु प्राकृतलोकानां सर्वे देवा वन्दनीया नावन्दनीयाः, एवं सर्वे गुरवः, सर्वे धर्म्मा इति । आभिनिवेशिकं जानतोऽपि यथावस्थितं वस्तु दुरभिनिवेशलेशविप्लावितधियो जमालेवि भवति । सांशयिकं देवगुरुधर्मेष्वयमयं वेति संशयानस्य सम्पद्यते । अनाभोगिकं विचारशून्यस्यैकेन्द्रियादेर्वा विशेषज्ञानविकलस्य स्यादिति ।
I
Jain Education International 2010_02
अस्य च हेतवो निश्चयनयाभिप्रायेण निबिडरागद्वेषादयस्तद्रूपत्वाद् ग्रन्थेः, तस्यैव च सम्यक्त्वप्रतिबन्धकत्वेन मिथ्यात्वहेतुत्वम् व्यवहारतो मिथ्यात्व हेतवः "पुनरदेवे देवबुद्धिरगुरी गुरुबुद्धिरधर्मे धर्म्मबुद्धिश्चेति । तथा परतीर्थेषु धर्म्मधिया तपः स्नानदानादिप्रवृत्ति: सङ्क्रान्तिग्रहण-व्यतीपातादिलौकिकपर्वसु धर्म्मबुद्धया दानम् । इन्द्रादिदेवसन्तर्पणायाग्नौ सर्पिरादीनां हवनम् । पितृतृप्तये तदुद्देशेन पिण्डपानीयादिविसर्गः । अन्यदपि मिथ्यादृष्टिदेवगुर्वादिप्रतिबद्धं यत् परलोकहितप्रवृत्तये प्रवर्त्यते तत् सर्वं मिथ्यात्वहेतुत्वेन पर्यवस्यति ।
एवमुक्तप्रकाराणामन्येषां च श्रुतप्रणीतानां श्रुतधरोद्दिष्टानां च मिथ्यात्वहेतूनां विरहाद्-अभावाद्,
15. तत्त्वेषु रुचिरित्यस्य तत्त्वार्थश्रद्धानमित्यर्थपर्यवसानं ।
धर्म सं. वृत्तिः श्लो. २१ ।।
16. तुला - अदेवे देवबुद्धिर्या गुरुधीरगुरौ च । अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्ययात् ।। - योग. शा. २ / ३ ।। अदेवासाध्वतत्त्वेषु यद्येवत्वादिरोचनम् । विपरीतमतित्वेन तन्मिथ्यात्वं निगद्यते ।। - मूल शु. प्र. गा. ४ वृत्तौ ।।
For Private & Personal Use Only
www.jainelibrary.org