________________
हितोपदेशः । गाथा-१५ - सम्यक्त्वस्य स्वरूपम् ।।
स्येति क्षायिकम्, तञ्च साद्यनन्तम् । तथा "कारक-रोचक-दीपकादयोऽप्यस्य भेदा ग्रन्थान्तरोक्तयुक्तयैव ज्ञेयाः । एतञ्च त्रिविधमपि सम्यक्त्वं पूर्वोदितजीवाजीवादितत्त्वश्रद्धानरूपं यद्यपि यतिश्रावकाणां साधारणम्, तथापि देशविरतानां देवगुरुधर्मेषु पूज्यत्वोपास्यत्वानुष्ठेयत्वलक्षणोपयोगवशाद् देवगुरुधर्मतत्त्वप्रतिपत्तिरूपमपि सम्यक्त्वमवगन्तव्यम्, यथा “अर्हन्नेव देवः, सुसाधव एव गुरवः, सर्वज्ञोपज्ञ एव धर्म इति ।
एवं तत्त्वश्रद्धानरूपं सम्यक्त्वमभिधाय साम्प्रतं तत्त्वान्येव विशिनष्टि किंविशिष्टेषु तेषु ? अत आह - 'सव्वनुपणीएसुं' सर्वज्ञप्रणीतेषु, न पुनस्तथाविधमुग्धजनविप्रतारणप्रवणधूर्तजनकल्पितेषु । ये त्वनादिदुर्वासनाविनाटितान्तःकरणा भगवति सर्वज्ञेऽपि निजाज्ञानोपहतमतयो विप्रतिपद्यन्ते तान् प्रतीदमनुमानमुच्यते -
13. तुला - तिविहं कारगरोयगदीवगभेएणं, कारगादिसरूवं पुण इमं - जं जह भणियं तं तह करेइ सति जंमि कारगं तं तु । रोयगसम्मत्तं पुण रुइमेत्तकरं मुणेयव् ।।१।। सयमिह मिच्छद्दिट्ठी धम्मकहाईहिं दीवइ परस्स । सम्मत्तमिणं दीवग कारणफलभावओ नेयं ।।२।।
- श्रावकधर्मपञ्चा० चूर्णि गा. ७ ।। कारक-रोचक-दीपकभेदाद वा त्रिविधम् । कारकं साधूनामिव, रोचकं श्रेणिकादेरिव, दीपकमङ्गारमर्दकादेरिव ।
- सम्य० प्र० गा. २४९ ।। कारकं सूत्राज्ञाशुद्धा क्रियैव । तस्या एव परगतसम्यक्त्वोत्पादकत्वेन सम्यक्त्वरूपत्वात्, तदवच्छिन्नं वा सम्यक्त्वम् कारकसम्यक्त्वम् । एतञ्च विशुद्धचारित्राणामेव १ । रोचयति सम्यगनुष्ठानप्रवृत्तिम् न तु कारयतीति रोचकम् । अविरतसम्यग्दृशां कृष्णश्रेणिकादीनाम् २ । दीपकं व्यञ्जकमित्यनर्थान्तरम्, एतञ्च यः स्वयं मिथ्यादृष्टिरपि परेभ्यो जीवाऽजीवादिपदार्थान् यथावस्थितान् व्यनक्ति तस्याङ्गारमईकादेर्द्रष्टव्यम् ३ ।
___ - धर्म सं० श्लो. २२ वृत्तौ ।। जं जह भणियं त तह करेइ सइ जंमि कारगं तं तु । रोयगसम्मत्तं पुण रुइमित्तकरं मुणेयव्वं ।। सयमिह मिच्छद्दिट्ठी धम्मकहाईहि दीवइ परस्स । सम्मत्तमिणं दीवग कारणफलभावओ नेयं ।।
- श्राव० प्रज्ञ० गा. ४९-५० ।। 14. तुला - अरिहं देवो गुरुणो सुसाहुणो जिणमयं पमाणं च । इञ्चाइ सुहो भावो, सम्मत्तं बिंति जगगुरूणो ।।
- संबो. प्र. सम्य. अधि. ३४ ।। सव्वाइं जिणेसरभासियाई वयणाइं नन्नहा हुंति । इइ बुद्धी जस्स मणे सम्मत्तं निचलं तस्स ।।
- नवतत्त्व प्रकरण गा. ५२ ।। जीवाइ नव पयत्थे जो जाणइ तस्स होइ सम्मत्तं । भावेण सद्दहंतो अयाणमाणे वि सम्मत्तं ।।
- सम्य. प्र. गा. २४२/नवतत्त्व प्र. गा. ५१ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org