________________
हितोपदेशः । गाथा-१५ - सम्यक्त्वस्य स्वरूपम् ।।
इति प्रत्ययः, तत् सम्यक्त्वम् । तच्च "त्रिविधम्-औपशमिकं क्षायोपशमिकं क्षायिकं च । तत्रोपशमो भस्मछन्नाग्निवत् मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च क्रोध-मान-माया-लोभानामनुदयावस्था, उपशमः प्रयोजनं प्रवर्तकमस्येत्यौपशमिकम् । तञ्चानादिमिथ्यादृष्टे: करणत्रयपूर्वकमान्तमौहूर्तिकं चतुर्गतिगतस्यापि जन्तोर्भवति । यद्वा उपशमश्रेण्यारूढस्यौपशमिकं सम्यक्त्वं भवति । यदाह -
उवसमगसेढिगयस्स होइ उवसामियं तु सम्मत्तं ।
जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्मं ।।१।। [विशे. आव. गा. २७३५] क्षायोपशमिकं तु सम्यक्त्वमेवम्-मिथ्यात्वमोहनीयस्य अनन्तानुबन्धिनां च उदितानां यः किल देशतः क्षयो-निर्मूलनाशः, अनुदितानां चोपशमः, क्षयेण युक्त उपशमः क्षयोपशमः, स प्रयोजनमस्येति क्षायोपशमिकम्, तञ्च सत्कर्मवेदनाद् "वेदकमप्युच्यते । औपशमिकं तु सत्कर्मवेदनारहितमित्यौपशमिकक्षायोपशमिकयोर्भेदः, यदाह -
वेएइ संतकम्मं खओवसमिएसु नाणुभावं सो ।
उवसंतकसाओ उण वेएइ न संतकम्मं पि ।।१।। [विशे. आव. गा. १२९३] अस्य चावस्थितिः षट्षष्टिसागरोपमाणि साधिकानि । यदुक्तम् -
दो वारे विजयाइसु गयस्स तिनऽझुए अहव ताई ।
अइरेगं नरभवियं नाणाजीवाण सव्वद्धं ।। [वि. भा. गा. ४३४] तथा क्षयः-मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च क्रोधादीनां निर्मूलनाशः - क्षयः-प्रयोजनम
11. तुला - सम्यक्त्वं च त्रिधा - औपशमिकं क्षायोपशमिकं क्षायिकं च । इत आरभ्य पत्र-१४ उपरि साद्यन्तम्
पाठः समानः योगशास्त्रवृत्तौ दृश्यतां ।। २/२ ।।। मिच्छत्तं जमुइन्नं तं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं वेयिज्जंतं खओवसमं ।। उवसमगसेढिगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजा अखवियमिच्छो लहइ सम्मं ।। खीणंमि उन्नम्मि अ अणुइज्जते अ सेसमिच्छत्ते । अंतोमुहुत्तमित्तं उवसमसम्मं लहइ जीवो ।। ऊसरदेसं दड्डिल्लयं व विज्जाइ वणदवो पप्प । इय मिच्छस्साणुदए उवसमसम्मं लहइ जीवो ।। खीणे दंसणमोहे तिविहम्मि वि भवनियाणभूयम्मि । निप्पच्चवायमउलं सम्मत्तं खाइयं होइ ।।
- श्राव० प्रज्ञ० गा. ४४-४८ ।। 12. तुला - वेअगमिअ पुव्वोइअचरमिल्लपुग्गलग्गासं । - धर्म सं० वृत्ति गा. २२ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org