SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-१५- सम्यक्त्वस्य स्वरूपम् ।। एवमुक्ताः सम्यक्त्वाधिकारिणः साम्प्रतं सम्यक्त्वस्यैव स्वरूपमाह - सव्वन्नुपणीएसुं तत्तेसु रुई हविज सम्मत्तं । मिच्छत्तहेउविरहा सुहायपरिणामरूवं तं ।।१५।।। तत्त्वेषु रुचिः सम्यक्त्वं भवेदिति योगः । तत्त्वेष्विति, कानि पुनस्तानि तत्त्वानि ? जीवा अजीवा आस्रव-संवर-निर्जरा-बन्ध-मोक्षलक्षणानि सप्त तत्त्वानि । तत्र जीवा द्विविधा:- मुक्ताः संसारिणश्च । तत्र मुक्तास्तावदेकस्वभावाः । संसारिणस्तु निगोदायेकाक्षपञ्चाक्षपर्यवसाना अनेकप्रकाराः । अजीवास्तु धर्म-अधर्म-आकाश-काल-पुद्गलाः पञ्च । एते च सर्वेऽपि कालं विना प्रदेशप्रचयात्मकाः अस्तिकायाश्च, पुद्गलं विना चामूर्ताः, यथाक्रमं च गतिस्थितिअवकाशपरापरत्वउपष्टम्भविधातार: । शुभाशुभकाश्रवरूपः आस्रवः, तद्विपरीतः संवरः, भवभूरुहबीजभूतकर्मणां जरणात् सकामाकामभेदाद् द्विधा निर्जरा, प्रकृतिस्थितिप्रदेशरसभेदाञ्चतुर्द्धा बन्धः, सकलकर्मक्षयलक्षणो मोक्षः । एवंविधेषु "जीवाजीवादिषु या रुचिः-अभिलाष: 'तथा' गाथा-१५ 1. तुला - जिनोक्ततत्त्वेषु रुचिः शुद्धा सम्यक्त्वमुच्यते । - धर्म० सं० श्लो-२१ ।। रुचिर्जिनोक्ततत्त्वेषु सम्यक् श्रद्धानमुच्यते । - योग० शा० १/१७ ।। तत्तत्थसद्दहणं सम्मत्तं । - श्रावकधर्मपञ्चा० गा०३ ।। सदसणं च तत्तरुइं । - सम्य० प्र० गा. १०८ ।। सद्दर्शनं च सम्यक्त्वं तत्त्वरुचिस्तत्त्वाऽभिलाषः । - सम्य० प्र० बृहद्वृत्तिः गा. १०८ ।। तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् । - तत्त्वा० सू० १/२ ।। 2. तुला - जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् । - तत्त्वा० १/सू. ४ ।। जीवा अजीवा आस्रवा बन्धः संवरो निर्जरा मोक्ष इत्येष सप्तविधोऽर्थस्तत्त्वम् । एते वा सप्त पदार्थास्तत्त्वानि । - तत्त्वा० भा० १/४ ।। 3. तुला - संसारिणो मुक्ताश्च । - तत्त्वा० सू. २/१० ।। संसारिणत्रसस्थावराः । - तत्त्वा० सू. २/१२ ।। 4. तुला - धम्माधम्मापुग्गलनहकालो पंच हुंति अजीवा । चलणसहावो धम्मो थिरसंठाणो य होइ अधम्मो ।। अवगाहो आगासो पुग्गलजीवाण पुग्गला चउहा । खंधा-देस-पएसा परमाणु चेव नायव्वा ।। - सम्य प्र० गा. २३७-२३८ ।। 5. तुला - कायवाङ्मनः कर्मयोगः । - तत्त्वा० सू. ६/१ ।। स आस्रवः । - तत्त्वा० सू० ६/२ ।। 6. तुला - आस्रवनिरोधः संवरः । - तत्त्वा० सू. ९/१ ।। 7. तुला - तपसा निर्जरा च । - तत्त्वा० सू. ९/३ ।। 8. तुला- सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलानादत्ते । - तत्त्वा० सू. ८/२ ।। स बन्धः । - तत्त्वा० सू. ८/३ ।। 9. तुला - कृत्स्नकर्मक्षयो मोक्षः । - तत्त्वा० सू. १०/३ ।। 10. तुला - जीवादिषु यन्त्राग्निवत् रुचि० - सं. प्रतौ ।। .. Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy