SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-१२, १३, १४ - सम्यक्त्वाधिकारिणः त्रयोदश गुणाः ।। विपद्युचैः स्थेयं पदमनुविधेयं च महताम्, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तोनाभ्यर्थ्याः सुहृदपिनयाच्यस्तनुधनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।।१।।[ ] (४)"कुतीर्थिऋद्धिष्वप्यमुग्धाः' कुतीर्थिनः साङ्ख्य-शाक्य-शैवादयस्तेषाम् ऋद्धयः-सम्पदः क्षितिपतिपूजादयस्तासु विपुलास्वपि दृष्टासु न मुग्धाः, 'अहो ! साधुरयमप्यमीषां धर्मो यदत्र नृपतिप्रभृतयोऽपि प्रवर्त्तन्ते' इति । पुनस्तानेव लक्षयति - कीदृक्षास्ते ? - (५) अक्षुद्राः' क्षुद्रप्रकृतिविरहिताः परपरिवादः परसम्पन्मत्सरित्वं परव्यसनोपनिपातसन्तोषश्चेति क्षुद्रत्वम्, अयं च न सतां धर्मः एतद्विपरीतवृत्तयो हि सन्तः, तथा च ब्रुवते - यदि नाम नजायेत परक्लेशेन वेदना। परोत्सवसमुत्पत्तौ स्वान्तःसन्तप्यसे कुतः ? ॥१॥[ ] पुनः किंरूपाः ? - (६) अकृपणा:' कदर्यो हि भृत्यभर्तव्यात्मवञ्चनेनापि धनमेव सञ्चिनोति, न धर्मम् । अत एव - नेहलोके नान्यलोके न धर्मे नार्थकामयोः । नोपकारेऽपकारे वा कदर्य उपयुज्यते ।।१।।[ ] एतद्विलक्षणप्रकृतिस्तूदारः दृष्टे हि दूरादपि दातरि प्रावृषेण्यपर्जन्य इव समुज्जीवति जनता, असकृत् प्रवर्तितदानवर्षः कदाचिदुपशान्तदानोऽपि महेभ इव नाभिभूयते नीचजनेन, दानाङ्कुशेन वशीकरोत्युदारः क्षणेन व्यालानिव क्षोणिपालान्, तमांसीव सवितरि न प्रभवन्ति दुर्जनवचांसि दातरि । पुरैव प्रगुणितदानयानपात्रः कदाचित् पतितोऽपि दैवादाऽऽपगापतौ निस्तारयत्यात्मानम् । देशकालान्तरितोऽपि दाता पुरः स्फुरन्निव प्रतिभात्यविनश्वरेण यशःशरीरेण । किं बहुना ? सम्पदि विपदि विवादे धर्मे चार्थे परार्थसङ्घटने । देवगुरुकृत्यजाते स्फुरत्युदारः परं लोके ।।१।।[ ] 4. आपगापतौ - आपेन जलसमूहेन गच्छति (आप+गम्+ड) - श. २ म० पृ. ३०४ ।। आ अपगच्छति आपमब्धिं गच्छतीति वा, अप सम्बन्धिना वेगेन आपेन वेगेन गच्छतीति वा “नाम्नो गमः" ।।५।१।१३१ । । इति ड:- अ.चि. ना. स्वो. वृत्तिः । आपगानां पतिः, तस्मिन् ।।३।१।७६ सि. हे. ।। नद्यर्थे ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy