________________
हितोपदेशः । गाथा-११, १२, १३ - हिताहितस्य विभागः ।। सम्यक्त्वाधिकारिणः त्रयोदश गुणाः ॥ ९
अपश्यन्तः । तथा 'अमुणंता हियमहियं' तत्र हितं-मोक्षपथप्रस्थानम्, अहितं-भवावस्थानम्, हिताहितयोरप्यज्ञाने मिथ्यात्वपटलसंछन्नदर्शनत्वमेव हेतुः । एवंविधा जीवा भवावटे निपतन्ति । अथवोक्ति:-ये किल पटलेन नेत्ररोगविशेषेण, संछन्नदृष्टयस्ते वस्तूनां-घटपटादीनां तत्त्वं-स्वरूपं, न पश्यन्ति । हितम्-अहि-कण्टक-कूपादिभ्यो निवर्त्तनम्, अहितमेतेष्वेव प्रवर्त्तनम्, एवंविधं हिताहितमजानन्तो नियतमवटे निपतन्तीति ।।१०।। एवं च सति यद् विधेयं तदाह -
ता मिच्छपडिच्छंदं हच्छं उच्छिंदिऊण मिच्छत्तं ।
पयडियजिणुत्ततत्तं भो भव्वा ! भयह सम्मत्तं ।।११।। यत एवं विपाकं मिथ्यात्वं तस्माद् भो भव्याः । 'सम्यक्त्वं भजध्वम् । तत्र सम्यक्त्वं वक्ष्यमाणस्वरूपम् । अभव्यानां सम्यक्त्वयोग्यताऽभावादेव भो' इति भव्यानां सम्बोधनम् । किं कृत्वा? 'मिच्छत्तं उच्छिंदिऊण' मिथ्यात्वम् उत् प्राबल्येन छित्त्वा-मूलादुन्मूल्य । कथम् ? 'हच्छं' त्वरितम् । किंविशिष्टं मिथ्यात्वम् ? निर्विचारकत्वेन मालिन्योत्पादकत्वेन सुदुःसहदुःखलक्षहेतुत्वेन च म्लेच्छप्रतिच्छन्दम् । एतदुन्मूलनेन सम्यक्त्वं सेवध्वम् । किंविशिष्टं ? प्रकटितजिनोक्ततत्त्वम् प्रकटितानियथावत् प्रकाशितानि, जिनोक्तानि-अर्हत्प्रणीतानि, तत्त्वानिजीवाजीवादीनि, येन तत्तथा । तद्भजनेऽप्ययमेव हेतुरिति ।।११।। इदानीं जिनशासनसाररत्नकोशागारप्रतिमस्य सम्यक्त्वस्याधिकारिणः प्रदर्शयन्नाह -
दढधम्मरायरत्ता' कम्मेसु अनिदिएसु य पसत्ता' । वसणेसु असंखुद्धा कूतिथिरिद्धीसु वि अमुद्धा ।।१२।। अक्खुद्दा- य अकिविणा अदुराराहा अदीणवित्तीय । हियमियपियभासिल्ला संतोसपरा अमाइला ।।१३।।
गाथा-११1. जीवाइनवपयत्थे जो जाणइ तस्स होइ सम्मत्तं । भावेण सद्दहंतो अयाणमाणे वि सम्मत्तं ।।
- नवतत्त्व गा. ५१ ।। गाथा-१२-१३-१४ 1. 'हियमियपियभासिल्ला' इति विवरणकारसम्मतः पाठः अस्माभिरत्र स्वीकृतः मूले तु 'हियपियमिय' इति पाठो दृश्यते ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org