________________
हितोपदेशः । गाथा-९, १० - परमार्थहितानि पदार्थानि ।। मिथ्यात्वस्य दुरन्तता ।।
आत्महितान्येवाह -
सुविसुद्धं सम्मत्तं उत्तमगुणसंगहो विरइजुयलं ।
पायेण हियत्थीणं परमत्थहियाणि एयाणि ।।९।। मूलद्वारगाथा ।। किल धन-यौवन-विषयोपभोग-राजप्रसाद-प्रभुत्वादयोऽपि मुखमात्ररमणीयत्वेन प्रतनुधियं हितमतिमुत्पादयन्ति, किन्त्वनैकान्तिकत्वेन परिणामदारुणत्वेन च न परमार्थहितानि तानि । कानि पुनस्तत्त्वतो हितानि ? इत्यत आह - 'सुविशुद्धं सम्यक्त्वं' वक्ष्यमाणस्वरूपम् । तथा 'उत्तमगुणसङ्ग्रहः' सोऽपि वक्ष्यमाण एव । विरत्योयुगलं 'विरतियुगलं' तत्राद्या देशविरतिद्वितीया सर्व्वविरतिरिति । प्रायेण बाहुल्येन एतानि हितानि । यतः सर्वमपि यत् किञ्चिज्जिनशासने उपादेयत्वेनोक्तं तत् परमार्थहितमेव सम्यक्त्वादीनि तु प्रकरणेऽस्मिन् व्याख्येयत्वेनादृतान्यतः सविशेषं तदुपादानम् । एतानि चास्मिन् प्रकरणपुरे गोपुराणीव चत्वार्यपि मूलद्वाराणीति ।।९।।
अधुना मूलद्वारोल्लिखितस्य सम्यक्त्वस्य स्वीकाराय भव्यान् प्रेरयितुं प्रथमं तद्विपक्षभूतस्य मिथ्यात्वस्य दुरन्ततामुपदर्शयन्नाह -
मिच्छत्तपडलसंछत्रदंसणा वत्थुतत्तमनियंता ।
अमुणंता हियमहियं निवडंति भवावडे जीवा ।।१०।। जीवा भवावटे निपतन्तीति सण्टङ्कः । तत्र भव एवागाधतलत्वेन विविधापन्निबन्धनत्वेन चावट इवावटस्तस्मिन् । किंविशिष्टा जीवाः? मिथ्यात्वपटलसंछन्नदर्शनाः । तत्र जीवाजीवादीनामस्तित्वानुपलब्धिर्वितथोपलब्धिर्वा मिथ्यात्वम् । तदेवावारकत्वेन पटलमिव पटलम् । तेन संछन्नम्-आच्छादितं दर्शनं-सम्यग्दर्शनं येषां ते तथा । अत एव 'वत्थुतत्तमनियंता' वस्तूनांजीवाजीवादीनां तत्त्वं-यथावस्थितत्वम्, यथा जीवद्रव्यस्य जीवत्वं प्रमेयत्वम् अमूर्त्तत्वादि तत्त्वम्, अजीवद्रव्याणां धर्माऽधाऽऽकाशकालपुद्गलानां तत्त्वम्; धर्मस्य गतिमत्त्वम्, अधर्मस्य स्थितिमत्त्वम् उभयोरपि लोकप्रमाणत्वम्, आकाशस्य अवकाशदातृत्वम् लोकालोकव्यापकत्वम्, कालस्य अनस्तिकायत्वं पारिणामिकत्वम्, पुद्गलानामानन्त्यं मूर्त्तत्वं पारिणामिकत्वादिकं तत्त्वम्; पुण्यसंवरनिर्जरामोक्षाणामुपादेयत्वम्, पापाश्रवबन्धानां हेयत्वादिकं तत्त्वम् । 'अनियंता'
गाथा-१० 1. चलणसहावो धम्मो ।। 2. थिरसंठाणो अधम्मो य ।। - सम्य० प्र० गा. २३७ ।।
3. अवगाहो आगासो ।। - सम्य० प्र. गा. २३८ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org