________________
हितोपदेशः । गाथा-८- मनुजजन्मनो दुर्लभता ।।
सा चंडवायवीईपणुल्लिया अवि लभिज्ज जुगछिड्डुं ।
नय माणुसाओ भट्ठो जीवो पडिमाणुसं लहइ । । ३ । । [१ तः ३ उत्तरा० बृ० वृ० गा. १५९ निर्युक्तौ ]
इ अइदुल्लहलं माणुस्सं पाविऊण जो जीवो ।
न कुइ पारत्तहियं सो सोयइ संकमणकाले ॥ ४ ॥
कामगाई जम्मणमरणपरियट्टणसयाइं । दुक्खेण माणुसत्तं जइ लहइ जहिच्छियं जीवो ।। ५ ।। तं तदुल्लभं विज्जुलयाचंचलं मणुस्सत्तं । लद्धूण जो पमायइ सो काउरिसो न सप्पुरिसो ॥ ६॥ माणुस्सखित्तजाईकुलरूवारुग्गमाउयं बुद्धी । सम (व) णुग्गह सद्धा संजमोय लोयम्मि दुलहाई ॥ ७ ॥ 'आलस्स' मोह' saना थंभा कोहो " पमाय किविणत्ता । भय' सोगा' अन्नाणा" वक्खेव" कुऊहला" रमणा ।।८।।
७
एएहिं कारणेहिं लद्धूण सुदुल्लहं पि माणुस्सं ।
न लहइ सुइं हियकरिं, संसारुत्तारणि जीवु । । ९ । । त्ति ।। ८ । । [ ४त. ८ उत्तरा० बृ० वृत्तिः नि० गा. १६०-१६१] गाथा-८ 1. व्याख्या - आलस्यात्' अनुद्यमस्वरूपात्, न धर्माचार्यसकाशं गच्छति न शृणोति च इति सर्व शेषः, 'मोहात्' गृहकर्तव्यताजनितवैचित्त्यात्मकात् हेयोपादेयविवेकाभावात्मकाद्वा, "अवज्ञातो' यथा किममी मुण्डश्रमणा जानन्ति ? इति 'अवर्णाद्वा' साध्वश्लाघात्मकात् यथाऽमी मलदिग्धदेहाः सकलसंस्काररहिताः प्राकृतप्रायवचस इत्यादिरूपात् ‘‘स्तम्भात्' जात्यादिसमुत्थादहङ्कारात् कथमहं प्रकृष्टतरजातिरेनमुपसर्पामीत्यादिरूपात्, ‘क्रोधाद्’ अप्रीतिरूपात् आचार्यादिविषयात्, महामोहोपहतो हि कश्चिदाचार्यादिभ्योऽपि कुप्यति, 'प्रमादात्' निद्रादिरूपात्, कश्चिद्धि निद्रादिप्रमत्त एवाऽऽस्ते, कृपणत्वात्' द्रव्यव्ययासहिष्णुत्वलक्षणात्, यद्यहममीषामन्तिके गमिष्याम्यवश्यंभावी द्रव्यव्यय इति वरं दूरत एषां परिहार इति, "भयात्' कदाचिन्नरकादिवेदनाश्रवणोत्पन्नसाध्वसात्, निःसत्त्वो हि नरकादिभयमावेदयन्तीत्यमी इति भयान्न पुनः श्रोतुमिच्छति 'शोकाद्' इष्टवियोगोत्थदुःखात्, कश्चिद्धि प्रियप्रणयिनी - मरणादौ शोचन्नेवास्ते, “अज्ञानात्' मिथ्याज्ञानात् 'न मांसभक्षणे दोषो, न मद्ये न च मैथुने' इत्यादिरूपात् ‘१९व्याक्षेपाद्' इदमिदानीं कृत्यमिदं च इदानीमिति बहुकृत्यव्याकुलतात्मकात् "कुतूहलाद्' इन्द्रजालाद्यवलोकनगोचरात्, "रमणात्’ कुर्कुटादिक्रीडात्मकात्, क्वचित्सुपोऽश्रवणं प्राग्वत्, प्रक्रान्तार्थनिगमनायाह - 'एभि:' अनन्तरोक्तस्वरूपैः ‘कारणैः' आलस्यादिहेतुभिः 'लद्धूण सुदुल्लाहं पि' त्ति अपेभिन्नक्रमत्वाल्लब्ध्वाऽपि 'सुदुर्लभम्' अतिशय दुरापं 'मानुष्यं' मनुजत्वं 'न लभते' न प्राप्नोति 'श्रुतिं' धर्माकर्णनात्मिकां कीदृशीम् ? 'हितकरीम्' इह परत्र च तथ्यपथ्यविधायिनीम्, अत एव संसारादुत्तारयतिमुक्तिप्रापकत्वेन निस्तारयति इति संसारोत्तारणी तां, 'जीव:' जन्तुः इति गाथार्थः ।। १६०-१६१ ।। उत्तरा० शान्त्याचार्यकृत बृ० वृत्तौ ।
-
- उत्तरा० नेमिचन्द्रीयवृत्तौ - ३ / १ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org