________________
हितोपदेशः । गाथा-७, ८ - मनुजजन्मनो दुर्लभता ।।
समुचितं च सागरादमृतस्य समुद्धरणम्, अमृतोपभोगाच्चाजरामरत्वम् । भवत्येव च जिनसमयसमुद्धृतहितोपदेशेभ्यो भव्यानामजरामरपदावाप्तिः । जिनसमयादुद्धृत्येत्येतावता जिनागममूलता प्रकरणस्याभिदधे, तदभिधानाच्चावितथप्ररूपणमुपपन्नमेवेति ।।६।। साम्प्रतं हितोपदेशानेव प्रस्तावयन्नाह -
पुणरुत्तजम्ममरणे अणाइनिहणे भवम्मि जीवाणं ।
दुसमदुसमाइ जिणदंसणं व मणुयत्तणं दुलहं ।।७।। अस्मिन् भवे जीवानां मनुजत्वं दुर्लभम् । किंभूते ? पुनरुक्तजन्ममरणे । जन्म च मरणं च जन्ममरणे, पुनरुक्तेपुनः पुनर्भाविनी जन्ममरणे यत्र स तथा, तस्मिन् । पुनः किंविशिष्टे ? अनादिनिधने । तत्रादिः-आरम्भदिनम्, निधनं-विनाशवासरः, न विद्येते आदिनिधने यस्य स तथा । एतेन जगतामैकान्तिकोत्पत्तिप्रलयौ गलहस्तितौ । कस्यां किमिव ? 'दुसमदुसमाइ जिणदंसणं व' दुःषमदुःषमा-अवसर्पिणीप्रान्तषष्ठारकस्तस्यां यथा जिनानाम्-अर्हतां, दर्शनंसाक्षादवलोकनम्, जिनदर्शनं जिनप्रवचनं वा, तद् दुर्लभम् । षष्ठारके हि तयोर्द्वयोरप्यत्यन्तमभावादिति ।।७।। एवं चातिदुर्लभे लब्धे मानुष्यके यद् विधातुमुचितं तदाह -
पत्ते य तम्मि खित्ताइसयलसामग्गिसंगए कहवि ।
अत्तहियम्मि पयत्तो सइ जुत्तो बुद्धिमंताणं ।।८।। तस्मिन् मानुष्यके लब्धे बुद्धिमतामात्महिते प्रयत्नः सदा कर्तुं युक्त इति योगः । तस्मिन्निति श्रुतोद्दिष्टचुल्लकादिदशदृष्टान्तदुर्लभे । 'कहवि' कथमपि युगसमिलायोगन्यायेन । किंविशिष्टे ? क्षेत्रादिसकलसामग्रीसङ्गते । यदाहुः -
चुल्लग पासग धने जूए रयणे य सुमिण चक्के य । चम्म जुगे परमाणू, दस दिटुंता मणुयलंभे ।।१।। [उपदेशपद-गा.५] पुवंते हुज्ज जुगं, अवरते तस्सहुज्ज समिलाउ।
जुगछिड्डम्मि पवेसो, इय संसइओ मणुयलंभो ।।२।। गाथा-७ 1. तुलना - एवं अणोरपारे संसारे सायरम्मि भीमम्मि । पत्तो अणंतखुत्तो जीवेहिं अपत्तधम्मेहिं ।।
- जीव. प्र. गा. ४४ ।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org