________________
हितोपदेशः । गाथा-४ - चतुर्विधसङ्घस्वरूपम् ।।
'वरकेवलनाणपयडियपयत्थो' वरं-बहुविषयत्वेन निरावरणत्वेन अप्रतिपातित्वेन च मत्यादिभ्यः प्रकृष्टतमं यत् केवलज्ञानं तेन प्रकटिता:-यथावदवबुध्य परेभ्य: प्रकाशिताः, पदार्थाः-जीवाजीवादयो, येन स तथा । विना हि कर्मनिर्मूलनं न खलु विमलकेवललाभस्तदन्तरेण च कथं यथावस्थितपदार्थप्रथनम्? अनेन च ज्ञानातिशयः सूचितः । पुनः किंरूपः? 'देसणामयनिव्ववियजणो' देशना समुत्पन्नविमलकेवलस्यास्य सुरासुरनरनिकर विराजितायां समवसरणसंसदि सर्वभाषापरिणामिन्या योजननिर्हारिण्या पञ्चत्रिंशद्गुणोपेतया गिरा भव्यलोकोपकृतये धर्मकथनम् । सा चोग्रमहामोहोरगगरलोद्गारसम्मूर्छितभव्यजनसञ्जीवनहेतुत्वेन अमृतमिवामृतम्, तेन निर्वापितः-शीतलीकृतो, दुरन्तचतुरन्तसंसृतिसंसरणसमुत्थदुःखदौःस्थ्यसन्तापादुन्मोचितः स्वयोग्यतानुमानेन जनो येन स तथा । क इव ? चन्द्र इव । यथा हि चन्द्रस्तथाविधातिरूक्षभीष्मग्रीष्मोष्मसन्तापितं जनं स्वज्योत्स्नामृतेन निर्वापयति, एवं भगवानपीति । इयता वचनातिशयः प्रभोरभिहितः, पूजातिशयश्च देशनावसरे समवसरणप्रातिहार्यलक्षणः सामर्थ्यगम्य एवेति ।।३।।
साम्प्रतं यत्प्रभावास्ती(त्ती)र्थनाथानामपि सर्वाद्भुतास्तीर्थकरादिसम्पदः सम्पनीपद्यन्ते, तस्य सुदूरोत्सारिताशेषविघ्नसङ्घस्य भगवतः सङ्घस्य जयशब्दोदीरणेन प्रकरणकृदात्मानमनुगृह्णन्नाह -
चउगइगत्तावडियं समसमयं सव्वभव्वजणनिवहं ।
उद्धरियं(उ) पिव पत्तो चउब्विहत्तं जयइ संघो ।।४।। श्रमण-श्रमणी-श्रावक-श्राविकारूपः सङ्घो जयति, सर्वविन्मूलत्वेनेतरकुतीथिसचेभ्यः सर्वोत्कर्षेण वर्त्तते । किंविशिष्ट: ? 'चउब्बिहत्तं पत्तो' चतस्रो विधाः-चतुर्विधसङ्घस्वरूपप्रकारा यस्य स तथा, तस्य भावश्चतुर्विधत्वम् । तच्च स्वभावसिद्धमप्युत्प्रेक्ष्यते 'सव्वभव्वजणनिवहं उद्धरियं(उं) पिव' सिद्धिगमनयोग्यजन्तुजातमुद्धर्तुमिव ननु महामहिम्नः सङ्घस्यैकेनैव रूपेण भव्योद्धृतिक्षमत्वमस्त्येव, किं चातुर्विध्येन ? इत्याह - 'चउगइगत्तावडियं' चतस्रः सुरनरतिर्यग्नारकरूपा गतयस्ता एव परमपदापेक्षया नितरां नीचैस्त्वाद् गर्ता इव गर्तास्तासु स्वस्वकर्मपरिणत्या निपतितम् । नन्वेवमपि क्रमेणोद्धरणे निर्निमित्तं चातूरूप्यमित्याह'समसमयं' समकालम् । अतः कथं चातूरूप्यमन्तरेण पृथग् पृथग् स्थानस्थितस्य तावतो भव्यनिवहस्य युगपदुद्धतिसंभवः । समुद्धियते च भगवता सङ्घन भवगातः सम्यगेव
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org