SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-३ - श्रीवर्द्धमानजिनस्तुतिः ।। lu ते जिनेन्द्रा नन्दन्तु परमसमृद्धिभिरेधन्ताम् । इदं चाशंसावचनमाराधकजनापेक्षम्, यतस्ते हि भगवन्तः पुरैव ज्ञानादिसर्वोत्तमसमृद्धिबन्धुराः, अतः किमपरं तेषामाशंसनम् ? तस्मादाराधकेभ्य एव समृद्धिहेतवः सम्पद्यन्तामिति । ये किम् ? ये 'अणंतजंतुसिवदायगा जाया' भूरिभव्यजननिःश्रेयसविश्राणनप्रवणाः सञ्जज्ञिरे । किं कृत्वा? एकनिगोदजन्तुमात्रमपि मोक्षमप्राप्य । अपि: विरोधे । ये किलैकजन्तुमात्रमपि निर्वृतिं न नयन्ति ते कथमनन्तजन्तुशिवदायकाः? अथ च तथास्थितेरेव तथा कथञ्चित्ते निगोदजीवाः परमसूक्ष्माः केवलिदृश्या अनन्तानन्ताः प्रचयरूपिणः सन्ति, यथा तन्मध्यादनन्तेषु जीवेषु व्यावहारिकराशिसङ्क्रमेण निर्वाणपदमापद्यमानेष्वपि तद्राशिनिगोदलक्षणस्तद्रूप एव । तथा चैतद्विषयमागमे त्रिकालगोचरं प्रश्नोत्तरसूत्रम् - 1"केवइया णं भंते ! अणंताणते काले भव्वजंतुणो मुक्खपयं पत्ता पाउणंति पाउणिस्संति वा ? गोयमा ! निगोयस्स अणंतओ भागु" [ ] त्ति । भगवद्भिश्च जिनैमिथ्यापथप्रमथनेन प्रवर्तितधर्मतीथैर्यद्यप्यनन्ता भव्यजन्तवः शिवपदं प्रापिताः प्राप्यन्ते प्रापयिष्यन्ते च तथापि निगोदजन्तुराशिस्तदवस्थ एव ।।२।। साम्प्रतं वर्त्तमानतीर्थाधिपतेः श्रीवर्द्धमानस्वामिनः स्तुतिं प्रस्तौति - जयइ जियकम्मसत्थो वरकेवलनाणपयडियपयत्थो । चंदु व्व 'देसणामयनिव्ववियजणो जिणो वीरो ।।३।। सकलेतरकुतीथिसार्थप्रभावापहस्तनेन श्रीवीरजिनो जयति । विपुलनभस्तलमध्यमध्यासितवति हि भगवति गभस्तिमालिनि का नाम द्युतिः क्षुद्रखद्योतपोतानाम् ? विदारयति यत् कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद् वीर इति स्मृतः ।। [ ] इति निरुक्ताद् वीरः । किंविशिष्ट: ? इत्याह - 'जियकम्मसत्थो' जित: - पराजितः समूलकाषङ्कषितः, कर्मणां-ज्ञानावरणादीनां, सार्थः - समूहो येन स तथा । एतेनापायापगमातिशयस्त्रिजगद्गुरोरभिहितः । अथैवंविधातिदुर्जयकर्मसार्थप्रमथनेन का नामार्थसिद्धिर्भगवतः? तदाह - गाथा-२ 1. तुलना - जइयाइ होइ पुच्छा जिणाणमग्गम्मि उत्तरं तइया । इक्कस्स निगोयस्स अणंतभागो य सिद्धिगओ ।। - नव. प्र. प्रक्षिप्त गा. ९८/१२६ ।। गाथा-३ 1. देसणामयनिव्ववियजणो महावीरो ।। सं. प्रतौ पाठा. ।। ____Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy