________________
हितोपदेशः । गाथा-१, २ - मङ्गलाचरणम् ।। जिनस्तुतिः ।।
उपैति मन्दोऽपि हि यत्प्रभावात् सद्यः कवित्वं बुधतां गुरुत्वम् ।
करोमि निष्कारणवत्सलेभ्यस्तेभ्यो गुरुभ्यः प्रयतः प्रणामम् ।।७।। इह हि शिष्टाः क्वचिदभीष्टे वस्तुनि प्रवृत्तिमभिलषन्तः पूज्यपूजोपचारमङ्गलपुरस्सरमेव प्रवर्त्तन्ते, पूज्याश्च परमार्थतः सकलप्रणयिजनमनःसङ्कल्पकल्पतरवः श्रीमन्तो देव-गुरव एव । अमीषां पूजोपचारमङ्गलं च द्रव्यभावभेदाद् द्विविधम् । तत्र द्रव्यपूजोपचारमङ्गलस्य यतीनामनधिकृतत्वेन उत्तरस्माच्चावमपलि[पालि?]त्वेनायमपि प्रकरणकार: शिष्टसमयपरिपालनार्थं प्रारम्भ एव प्रकरणस्य नमस्काररूपं पूज्यपूजोपचारभावमङ्गलमाह -
नमिरसुरासुरसिरल्हसिरसरसमंदारकुसुमरेणूहिं ।
निम्मज्जियपयनहदप्पणे जिणे पणमिमो सिरसा ।।१।। समग्रान्तरङ्गरिपुवर्गविजेतृन् जिनान् शिरसा प्रणमामः । न चोत्तमाङ्गनमनादपरोऽपि कायिकविनयप्रतिपत्तेः कोऽपि प्रकारः । वाचनिकविनयस्त्वत्र प्रतिपदोक्त एव, न च वाक्कायौ मानसिकाद्भुतभक्तिव्यक्तिमन्तरेण स्तुतिप्रणामादिषु प्रवर्तेते इति त्रिकरणशुद्धिरुपदर्शिता । किंविशिष्टान् जिनान् ? निर्मार्जितपदनखदर्पणान् तत्र पदयोः नखाः पदनखास्त एव सद्वृत्तकलितत्वेन नैर्मल्यगुणयोगेन च दर्पणा इव दर्पणाः । नितराम् अतिशयेन मार्जिताः पदनखा एव दर्पणा येषां ते तथा तान् । कैः? इत्याह - 'नमिरसुरासुरसिरल्हसिरसरसमंदारकुसुमरेणूहि' ति । वन्दारुदेवदानवशीर्षविगलदम्लानत्रिदशतरुप्रसूनपरागपूगैः । तत्र सुरा:वैमानिकाः, असुराश्च-भुवनपतयः, उपलक्षणं चैतच्चतुर्विधस्यापि देवनिकायस्य तदधिपतीनां च । तेषां शिरांसि मस्तकाः, तेभ्यः । 'ल्हसिर'त्ति []समानानि; सरसानि-सपरागाणि, नीरसानां हि कुतः किल वक्ष्यमाणकिजल्करेणुसम्भवः? अतः सरसानि यानि मन्दारकुसुमानि सुरद्रुमसुमनसस्तेषां रेणवः मधुधूलयस्तैर्निर्मार्जितपदनखदर्पणान्, समुचितं च रेणुभिर्दर्पणनिर्मार्जनम्, स्थाने चात्र प्रथममङ्गलरूपायां प्रथमगाथायामष्टमङ्गलाग्रेसरस्य दर्पणस्य शब्दद्वारेणोपादानम्, अनेन च भगवतामर्हतां सर्वाद्भुतत्रिभुवनाधिपत्योद्भावनम् । एवंविधाश्चामी शास्त्रप्रारम्भादौ भक्तिपुरस्सरं नमस्क्रियमाणाः सम्पद्यन्त एव सकलाभीष्टार्थसार्थसिद्धिप्रदा इति ।।१।। पुनर्जिनस्तुतिरूपामेव द्वितीयां गाथामाह -
नंदंतु ते जिणिंदा जे इक्कनिग्गोयजंतुमित्तं पि । मुक्खमपाउणिय अणंतजंतुसिवदायगा जाया ।।२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org