________________
।। ॐ हीं अहँ नमः ।। ॥ धरणेन्द्र-पद्मावतीपरिपूजित-सर्ववाञ्छित-मोक्षफलप्रदायक-श्रीशद्धेश्वरपार्श्वनाथाय नमः ।।
।। णमोऽत्थु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स ।। ।। णमोऽत्थु णं सिरिगोयमसामिपमुहगणहरभदंताणं ।।
॥णमोऽत्थु णं सुयथेर-चरणथेरभदंताणं ।। ।। णमोऽत्थु णं सासणपभावगाणं सूरिरामचंदाणं ।।
पूज्यपादश्रीमत्परमानन्दसूरिविरचित-हितोपदेशामृतविवरणसमन्वितः
पूज्यपादश्रीमत्प्रभानन्दसूरिविरचितः
।। हितोपदेशः ।।
श्रियेऽस्तु वः श्रीवृषभध्वजस्य, धर्मानुयोगाम्बुनिधिर्यदुत्थम् । हितोपदेशामृतमाततान, भव्याङ्गभाजामजरामरत्वम् ।।१।। प्रेवत्प्रभापल्लवितेन मौलौ, फणीन्द्रफुल्लत्फणपञ्चकेन । ज्ञानानि पञ्चापि दिशन्निवोच्चैः, श्रीसप्तमस्तीर्थपतिः पुनातु ।।२।। पार्श्वः स भूत्यै शितिकायकान्तिकरम्बिता यन्नखरश्मिमाला । नमस्यतां मूर्द्धनि माङ्गलिक्यदूर्वाक्षतश्रेणिनिभा विभाति ।।३।। श्रीवर्द्धमानस्य दिशन्तु वाचः, सुधामुधाधानबुधाः प्रबोधम् । निपीय याः श्रोत्रसुखास्त्रिलोकी, त्रिधा विपत्तापमपाकरोति ।।४।। नन्दन्तु चाऽन्येऽपि जिनेन्द्रचन्द्राश्चारित्रचन्द्रातपपाविताशाः । दुर्वासनान्धातमसं विभिद्य, सद्यः सतां सिद्धिपथं दिशन्तः ।।५।। पीयूषकुल्या कवितालतासु, वक्तृत्वपाथोधिसुधांशुमूर्तिः । सर्वार्थसन्दर्शनभानुदीप्तिर्वाग्देवता यच्छतु वाञ्छितं वः ।।६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org