________________
४१२
हितोपदेशः । गाथा-४४४ - द्वादशव्रतस्वरूपस्य निगमनम् ।।
देयस्य वस्तुजातस्य सञ्चित्ते पृथिवीजलकुम्भोपचुल्लीधान्यादौ क्षेपणं करोति । इति चास्य कुमतेर्मतिर्यदहं दानोपक्रममपि करिष्ये सञ्चित्तस्थं च न ग्रहीष्यन्ति साधव इति लाभोऽयं ममेति प्रथमोऽतिचारः । तथा देयस्यैव वस्तुनः सचित्तेन पुष्पफलादिना पूर्वबुद्ध्यैव पिधानं विदधतो द्वितीयः । तथा काल: साधूनां यः समुचितो भिक्षाकालस्तस्य तयैव बुद्धयाऽतिक्रमं करोति, तमतिवाह्य भुङ्क्ते अनागतं वा भुङ्क्त इति तृतीयः । तथा भिक्षार्थमुपस्थितेषु यतिषु खण्डगुडादिकं तदुपयोगि वस्तुजातं पुरः पश्यन् शाठ्येन उच्चाहरति । यथा हे ! साध्विदं देयं वस्तु, उपस्थिताश्चामी महात्मानः, परं किं क्रियते, परकीयमिदं, यद्यात्मीयमभविष्यत्, तदैतद् वितरणेन महत् पुण्यमुपात्तमभविष्यदिति परव्यपदेशाञ्चतुर्थः । तथा 'अनेन द्रमकेण मुनिभिर्मार्गितेनैतद् दत्तम् किमहमितोऽपि हीन' इति मात्सर्याद् ददतः पञ्चमः । अमी त्वनाभोगादिनैव विधीयमानाः पञ्चाप्यतीचाराः सम्भवन्ति । अन्यथा तु भङ्गा एवेति ।।४४३।। एवं द्वादशापि व्रतानि सातिचाराण्यभिधाय तानि निगमयन्नाह -
इय दंसणमूलाई, बारस वि वयाइं सुगुरुपयमूले ।
गिन्हिय परिपालंता, नियमा सुस्सावगा हुंति ।।४४४।। इति पूर्वोक्तप्रकारेण दर्शनमूलानि द्वादशापि प्राणातिपातविरमणमुख्यान्यतिथिसंविभागपर्यवसानानि गृहिव्रतानि गीतार्थगुरुचरणोपान्ते मिथ्यात्वपरिहारपुरस्सरं विधिवत् प्रतिपद्य परि सामस्त्येन निरतिचाराणि पालयन्तो नियमात् सुश्रावका भवन्ति । किल परमेष्ठिपदमात्रानुसारिणोऽपि 'श्रावकशब्दवाच्याः । पूर्वोक्तव्रतप्रतिपत्तिपरास्तु सुश्रावकाः, इति विशेषः ।।४४४।।
___ गाथा-४४४ 1. परलोयहियं सम्मं जो जिणवयणं सुणेइ उवउत्तो । अइतिव्वकम्मविगमा, सुक्कोसो सावगो एत्थ ।। पञ्चा. १/२ ।। स्रवंति यस्य पापानि पूर्वबद्धान्यनेकशः । आवृतश्च व्रतैर्नित्यं श्रावकः सोऽभिधीयते ।।१।। सम्पत्तदंसणाइ पइदिअहं जइजणा सुणेई अ । सामायारिं परमं, जो खलु तं सावगं बिन्ति ।।२।। श्रद्धालुतां श्राति पदार्थचिन्ताद्धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादत्तोऽपि तं श्रावकमाहुरुत्तमाः ।।३।। यद्वा श्रद्धालुतां श्राति श्रृणोति शासनं दानं वपत्याशु वृणोति दर्शनम् । कृन्तत्यपुण्यानि करोति संयमं तं श्रावकं प्राहुरमी विचक्षणाः ।।४।। तथा - श्रद्धा सम्यग् धर्मेऽस्यास्तीति 'प्रज्ञाश्रद्धार्यावृत्तेर्णः (सि. है. ७-२-३३) इति णप्रत्यये श्राद्ध इति, श्राद्धशब्दान्वर्थोऽपि भावश्राद्धत्वापेक्ष एवत्यत्रोक्तं भावश्राद्धेनात्राधिकार इति । - श्राद्ध वि. गा. ४ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org