________________
हितोपदेशः । गाथा-४४३ - चतुर्थशिक्षाव्रतातिचाराः ।।
४११
देशोचितं कालोचितं चेति भावः । तदिदमतिथिसंविभागवतम् ।।४४२ ।। अस्यातिचारानाह -
सचित्तनिक्खिवणयं', वजइ सचित्तपिहिणयं चेव ।
कालाइक्कम-परववएसं -मच्छरियं चेह ।।४४३।।। इहास्मिन्नतिथिसंविभागवते एतदतीचारपञ्चकं परिहरति । तथाहि-कश्चिन्मन्दमतिर्यतिभ्यो
गाथा-४४३ 1. तुला - अत्रातिचारानाह - सचित्तनिखिवणयं, वजइ सचित्तपिहणयं चेव । कालाइक्कमपरववएसं मच्छरिययं चेव ।।
- श्रा. ध. वि. प्र. गा. १०२ ।। (सचित्तनिक्षेपणं, वर्जयेत् सचित्तपिधानं चैव । कालातिक्रमपरव्यपदेशं मात्सर्यं चैव ।।)
"सञ्चित्त" गाहा व्याख्या - सञ्चित्तनिक्षेपणं वर्जयेत् सचित्तपिधानं चैव कालातिक्रमपरव्यपदेशं मात्सर्यं चैव वर्जयेदिति पदघटना । तत्र 'सञ्चित्तनिक्षेपणं' सचित्तेषु-व्रीह्यादिषु निक्षेपणमन्नादेरदानबुद्ध्या मातृस्थानत एव १। 'सञ्चित्तपिधानं' सञ्चित्तेन-फलादिना पिधानं-स्थगनमिति समासः, भावना प्राग्वत् २ । 'कालातिक्रमः' इति कालस्यातिक्रमः कालातिक्रमः - इत्युचितो यो भिक्षाकाल: साधूनां तमतिक्रम्य-अतिलघ्यनागतं वा भुङ्क्ते, तदा च किं तेन लब्धेनापि ? कालातिक्रान्तत्वात् ३ । तदुक्तम् - "काले दिण्णस्स पहेणयस्स अग्यो न तीरए काउं । तस्सेव अथक्कपणामिअस्स गिहतया नत्थि ।। [ ] 'परव्यपदेशः' इति आत्मव्यतिरिक्तः परः तस्य व्यपदेशः परव्यपदेश इति समासः । साधोः पौषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्ते परकीयमिदमिति नास्माकीनमतो न ददामि किञ्चित्; याचितो वाऽभिधत्ते विद्यमान एवामुकस्येदमस्ति तत्र गत्वा मार्गत यूयमिति ४ । मात्सर्यमितियाचितः कुप्यति, परोन्नतिवैमनस्यं वा मात्सर्यमिति तेन तावद् द्रमकेण याचितेन दत्तं किमहं ततोऽपि न्यून इति मात्सर्याद्ददाति, कषायकलुषितेन वा चित्तेन ददतो मात्सर्यम् ५ । इति गाथार्थः ।।
__ - श्रा. ध. वि. प्र. गा. १०२ वृत्तौ ।। सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ।। - तत्त्वा. सू. ७/३१ ।। ध. बि. अ. ३/३४ ।। सञ्चित्ते निक्खिवणे, पिहिणे ववएस मच्छरे चेव । कालाइक्कमदाणे, चउत्थे सिक्खावए निंदे ।। - श्रा.प्र.वृ.गा. ३० ।।
योगशास्त्रस्य द्वितीयप्रकाशे पञ्चाणुव्रतस्वरूपं सविस्तरं प्रासङ्गिककथासहितं वर्णितम्, तृतीयप्रकाशे त्रयाणां गुणव्रतानां चतुर्णां शिक्षाव्रतानां च प्रासङ्गिककथाभिः सह स्वरूपम् दर्शितम्, गुणव्रतेषु भोगोपभोगविरमणव्रते भक्ष्याभक्ष्यादिस्वरूपं सयुक्तिकं प्रदर्शितम् । द्वादशानां व्रतानामतिचाराः विस्तरेण वर्णिताः, भोगोपभोगव्रतातिचारप्रसङ्गे पञ्चदश कर्मादानानि प्रदर्शितानि ।।
धर्मबिन्दौ द्वादशव्रतस्य, व्रतस्यातिचाराणि च दृश्यतां - अ. ३, सू. १६-३४ ।।
श्रावकप्रज्ञप्तौ द्वादशव्रतस्य तथा व्रतस्यातिचाराणां स्वरूपं गा. २५८तः आरभ्य ३२८पर्यन्तं सविस्तरेण प्रदर्शितम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org