________________
४१०
हितोपदेशः । गाथा-४४२ - चतुर्थशिक्षाव्रतस्वरूपम् ।।
प्रमादाञ्चाविदधतः पञ्चमोऽतिचार इति ।।४४१।। 'अतिथिसंविभागवतमाह -
अन्नाईणं सुद्धाण, कप्पणिजाण देसकालजुयं ।
दाणं जईणमुचियं, चउत्थसिक्खावयं बिंति ।।४४२।। एवंविधमतिथिसंविभागाख्यं चतुर्थं शिक्षाव्रतं पूर्वसूरयो वदन्ति । यत् किम् ? यद् यतिभ्योऽतिथिभ्योऽनपानवस्त्रपात्रशय्यासंस्तारकम्बलौषधादीनां दानं वितरणम् । किम्भूतानां ? शुद्धानां प्रासुकानां, तथा कल्पनीयानामेषणीयानाम् । किंविशिष्टं दानम् ? देशकालयुतं
गाथा-४४२ 1. तुला - उक्तं सातिचारं तृतीयं शिक्षाव्रतम्, अधुना चतुर्थमुच्यते - अण्णाईणं सुद्धाण, कप्पणिजाण देसकालजुअं । दाणं जईणमुचियं, गिहीण सिक्खावयं भणियं ।।
- श्रा. ध. वि. प्र. गा. १०१ ।। (अन्नादीनां शुद्धानां, कल्पनीयानां देशकालयुतम् । दानं यतिभ्य उचितं, गृहिणां शिक्षाव्रतं भणितम् ।।)
"अण्णाईणं" गाहा व्याख्या - 'अन्नादीनां' भोजनादीनाम्, आदिशब्दात्पानवस्त्रौषधादिपरिग्रहः, अनेन च हिरण्यादिव्यवच्छेदमाह । 'शुद्धानां' न्यायागतानाम्, न्यायश्च द्विजक्षत्रियवैश्यशूद्राणां स्ववृत्त्यनुष्ठानम्। अनेनाप्यन्यायाऽऽगतानां निषेधमाह । 'कल्पनीयानाम्' उद्गमादिदोषवर्जितानाम्, अनेन त्वकल्पनीयानां प्रतिषेधमाह । 'देशकालयुतं' प्रस्तावोचितं 'दानं' वितरणं 'यतिभ्यः' मुनिभ्य: 'उचितं' संगतं गृहिणां शिक्षाव्रतं 'भणितं' उक्तमतिथिसंविभागव्रतमित्यर्थः । इह भोजनार्थं भोजनकालोपस्थायी अतिथिरुच्यते, तत्रात्मार्थनिष्पादिताहारस्य गृहिण: साधुरेवातिथिः । तदुक्तम् - तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ।।१।।" तस्यातिथेः संविभागोऽतिथिसंविभागः, संविभागग्रहणात्पश्चात्कर्मादिपरिहारमाह । इति गाथार्थः ।। ___ 'एत्थ सामायारी - सावगेण पोसहं पारेंतेण नियमा साहूण दाउं पारेअव्वं, अण्णदा पुण अणियमो - दाउं वा पारेइ पारिए वा देइ त्ति । तम्हा पुव्वं साहूणं दाउं पच्छा पारेअव्वं, कहं ? जाहे देसकालो ताहे अप्पणो सरीरस्स विभूसं काउं साहुपडिस्सयं गंतुं निमंतेइ भिक्खं गेण्हह त्ति । साहूणं का पडिवत्ती ? ताहे अण्णो पडलं अण्णो मुहणंतयं अण्णो भायणं पडिलेहेइ, मा अंतराइयदोसा ठवणादोसा भविस्संति, सो जइ पढमाए पोरसीए निमंतेइ अत्थि अ नमोक्कारसहिअइत्तगो गेज्झइ, अह नत्थि न गेज्झइ, तं वहिअव्वं होइ, जइ घणं लगेज्जा ताहे गेज्झइ संचिक्खाविज्जइ । जो वा उग्घाडाए पोरसीए पारेइ पारणइत्तो अण्णो वा तस्स दिज्जइ, पच्छा तेण सावगेण समगं संघाडगो वञ्चइ, एगो न वट्टइ पेसिउं, साहू पुरओ सावगो मग्गओ घरं नेऊणं आसणेण उवनिमंतइ, जइ निविट्ठा लट्ठयं, अह न निविसंति तहावि विणओ पउत्तो होइ त्ति, ताहे भत्तपाणं सयं चेव देइ त्ति, अहवा भाणं धरेइ भज्जा देइ, अहवा ठितओ अच्छइ जाव दिण्णं, साहू वि सावसेसयं दव्वं गेहंति पच्छाकम्मपरिहरणट्ठा, दाऊण वंदिउं विसज्जेइ, विसज्जेत्ता अणुगच्छइ, पच्छा सयं भुंजइ । जं च किर साहूण न दिण्णं तं सावगेण न भोत्तव्वं । जइ पुण साहू नत्थि ताहे देसकालवेलाए दिसालोओ कायव्वो, विसुद्धभावेण चिंतेअव्वं जइ साहूणो होता तो म्हि नित्थारिओ होतो त्ति विभासा ।।
- श्रा. ध. वि. प्र. गा. १०१ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org