________________
हितोपदेशः । गाथा-४४१ - तृतीयशिक्षाव्रतातिचाराः ।।
४०९
इहास्मिन् पौषधव्रते एतदतीचारपञ्चकं वर्जयति । तद्यथा - गृहीतपौषधो गृही अप्रतिलेखितदुष्पतिलेखिते स्थण्डिले शय्यासंस्तारादि न करोति, प्रमादाच्च कुर्वतोऽतिचारः प्रथमः । एवमप्रमार्जितदुष्प्रमार्जितेऽपि तथा कुर्वतो द्वितीयः । तथा पौषधी अप्रतिलेखितदुष्प्रतिलेखिते स्थण्डिले उञ्चारप्रश्रवणादि न करोति, प्रमादाञ्च कुर्वतस्तृतीयः । एवमप्रमार्जितदुष्प्रमार्जितेऽपि तथा कुर्वतश्चतुर्थः । अत्र च प्रतिलेखनं दृष्टिकृतम्, प्रमार्जनं मुखपोतादिजनितम् । दुष्प्रतिलेखितदुष्प्रमार्जितत्वं च कृताकृतरूपम् । यत्सूत्रम् -
"अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारए । अप्पमज्जियदुप्पमज्जियसिज्जासंथारए । अप्पडिलेहियदुष्पडिलेहियउयारपासवणभूमी । अप्पमज्जियदुप्पमज्जियउचारपासवणभूमी ।। [उपा. सू. अध्य. १, सूत्र६] तथा पौषधग्रहणकालनियमितस्याहारादिचतुष्टस्य तद्वतिना सम्यगनुपालनं विधेयम्,
(अप्रतिदुष्प्रतिलेखितप्रमार्जितशय्यादि वर्जयत्यत्र । सम्यग् चाऽननुपालनमाहारादिषु सर्वेषु ।।)
"अप्पडि" गाहा व्याख्या - "अप्पडिदुप्पडिलेहिअपमज्जसेज्जा" इति, सूचनात् सूत्रमिति न्यायात् प्राकृतानुरोधाचायमर्थः-अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्या-संस्तारको तथाऽप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारको वर्जयतीतियोगः । इह च शय्या प्रतीता, संस्तीर्यत इति संस्तारक:-पौषधव्रत उपयोगी दर्भकुशकम्बली-वस्त्रादिः, तयोश्चाप्रत्युपेक्षणंगोचरापन्नयोश्चक्षुषाऽनिरीक्षणं दुष्टं-उद्भ्रान्तचेतसः प्रत्युपेक्षणम्, ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ च तो शय्यासंस्तारको चेति समासः, शय्यैव वा संस्तारक इति । एवमन्यत्राप्यक्षरगमनिका कार्येति । उपलक्षणं च शय्यासंस्तारको उपयोगिनः पीठकादेरपि । एत्थ पुण सामाचारी - "कडपोसहिओ नो अप्पडिलेहिअ सेज्जं दुरूहइ, संथारगं वा दुरूहइ, पोसहसालं वा सेवइ, दब्भवत्थं वा सुद्धवत्थं वा भूमीए संथरइ, काइयभूमीओ वा आगओ पुणरवि पडिलेहेइ, अण्णहा अइयारो । एवं पीढगाइसु वि विभासा ।।" तथा प्रमार्जनं-शय्यादेवस्नोपान्तादिना तदकरणमप्रमार्जनम्, 'सम्यग् चाऽननुपालनम्' यथावदविधानं 'आहारादिषु सर्वेषु' प्रागुद्दिष्टेषु । इति गाथार्थः ।।
एत्थ भावणा - कयपोसहो अथिरचित्तो आहारे ताव सव्वं देसं वा पत्थेइ, बीयदिवसे पारणगस्स वा अप्पणो अट्ठाए, आढत्तिं करेइ कारवेइ वा, इमं इमं व त्ति करेह न वट्टइ । सरीरसक्कारे सरीरं उव्वट्टेइ, दाढिआओ केसे वा रोमाई वा सिंगाराहिप्पारणं संठवेइ, दाहे वा सरीरं सिंचइ, एवं सव्वाणि सरीरभूसाकारणाणि परिहरइ । बंभचेरे इहलोइए पारलोइए वा भोगे पत्थेइ संवाहेइ वा, अहवा सद्दफरिसरसरूवगंधा अभिलसइ, बंभचेरपोसहो कया पूरिही, चइयामो बंभचेरेणं ति । अव्वावारे सावजाणि वावारेइ, कयमकयं वा चिंतेइ, एवं पंचइयारसुद्धो अणुपालिअव्वो इति ।।
- श्रा. ध. वि. प्र. गा. १०० वृत्तौ ।। अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ।। - तत्त्वा. सू. ७/२९ ।। अप्रत्युपेक्षिता० धर्म बि. अ. ३/३३ ।। संथारुञ्चारविही पमाय तह चेव भोयणाभोए । पोसहविहिविवरीए तइए सिक्खावए निंदे ।।
- श्रा. प्र. वृ. गा. २९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org