________________
हितोपदेशः । गाथा-४३९ - तृतीयशिक्षाव्रतस्वरूपम् ।।
४०७
इहास्मिन् शिक्षाव्रते एतदतिचारपञ्चकं वर्जयति । किं तदित्याह-स्वयं नियमितस्य क्षेत्रस्य बहि:स्थितानां सचेतनादिद्रव्याणां किल स्वयं गमने व्रतभङ्गो भविष्यतीतिबुद्ध्या अन्येन भृत्यादिना स्वसमीपे आनयनप्रयोगे प्रथमोऽतिचारः । तथा एवमेव परिमितक्षेत्राद् बहिः प्रयोजनार्थं मा भून्मे स्वयं गमने व्रतभङ्ग इति धिया प्रेष्यस्य प्रेरणप्रयोगे द्वितीयः । किल जन्तूपमईप्रतिषेधार्थं देशावकाशिकं क्रियते । प्रेष्यादिप्रयोगे च स सुतरां स्यादतस्तन विधेयम् । प्रमादाञ्च विधानेऽतिचारः । एवमेव च गृहप्राकाराद्यवधीकृत्य कृतदेशावकाशिकस्य कस्मिंश्चित् प्रयोजनार्थिनि तदन्तिकमागते तददर्शनाञ्च प्रतिनिवर्तमाने आत्मानं ज्ञापयितुमुचैर्भाषणेन तत्कणे शब्दानुपातं विदधतस्तृतीयोऽतिचारः । तथैव चोपरिभूमिकादावारुह्य तद् दृष्टौ स्वरूपानुपातं कुर्वतश्चतुर्थः । एवमेव चात्मानं तस्मै बोधयितुं कर्करकादिपुद्गलक्षेपं कुर्वाणस्य पञ्चमः । सर्वत्रापि चाऽत्र व्रतसापेक्षतायां प्रमादादेवंविधानेऽतिचारतेति ।।४३८ ।। तृतीयं शिक्षाव्रतमभिधत्ते -
आहारदेहसक्काराबंभवावारचागनिप्फन्नं । इह पोसह ति वुइ तइयं सिक्खावयं पवरं ।।४३९।।
समवसितकान् बोधयतः शब्दानुपात: - शब्दस्यानुपातनं - उच्चारणं शब्दानुपातः तादृग् येन परकीयश्रवणविवरमनुपतत्यसाविति ३ । तथा रूपानुपात: - अभिगृहीतदेशाद् बहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां समीपानयनार्थं स्वशरीररूपप्रदर्शनं रूपानुपातः ४ । तथा बहिः पुद्गलप्रक्षेप: - अभिगृहीतदेशाद्वहिः प्रयोजनभावे परेषां प्रबोधनाय लेष्ट्वादिक्षेपः पुद्गलप्रक्षेपः इति भावना ५ । देशावकाशिकमेतदर्थमभिगृह्यते - मा भूहिर्गमनाऽऽगमनादिव्यापारजनितः प्राण्युपमर्द इति, स च स्वयंकृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः, प्रत्युत गुणः स्वयं गमने, ईर्यापथविशुद्धेः, परस्य पुनरनिपुणत्वात् तदशुद्धिः । इति गाथार्थ: ।। - श्रा. ध. वि. प्र. गा. ९८ वृत्तौ ।।
आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ।। - तत्त्वा . सू. ७/२६ ।। धर्म बि. अ. ३/३२ ।। आणवणे पेसवणे, सद्दे रूवे अपुग्गलक्खेवे । देसावगासिअंमी बीए सिक्खावए निंदे ।। - श्रा. प्र. वृ. गा. २८ ।। गाथा-४३९ 1. तुला - उक्तं सातिचारं द्वितीयं शिक्षाव्रतम् । साम्प्रतं तृतीयमुच्यते - आहारदेहसक्कारबंभवावारपोसहो अन्नं । देसे सब्वे य इमं, चरमे सामाइयं नियमा ।। - श्रा. ध. वि. गा. ९९ ।। (आहारदेहसत्कारब्रह्माऽव्यापारपौषधोऽन्यत् । देशे सर्वस्मिंश्चेदं, चरमे सामायिकं नियमा ।।९९।।)
"आहार" गाहा व्याख्या - ‘आहार-देहसत्कार-ब्रह्म-अव्यापारपौषधः' इति इह पौषधशब्दो रूढ्या पर्वसु वर्तते, पर्वाणि चाष्टम्यादितिथयः, पूरणात्पर्व धर्मोपचयहेतुत्वादित्यर्थः । पौषधशब्दश्चायं प्रत्येकमभिसंबध्यते, आहारपौषध इत्यादि । 'अन्यत्' अपरं तृतीयं पौषधोपवासशिक्षाव्रतमित्यर्थः । 'देशे' देशविषयं 'सर्वस्मिन्' सर्वविषयम्, 'चः' समुच्चये, 'इदं' पौषधोपवासशिक्षाव्रतं 'चरमे' सर्वतोऽव्यापारपौषधेऽङ्गीकृते 'सामायिकं' उक्तस्वरूपं करणीयमिति गम्यते, 'नियमात्' अवश्यंतया, अन्यथा सामायिकगुणाऽभाव इति पदघटना । तत्राहार: - प्रतीतः, तद्विषयस्तन्निमित्तो
____Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org