SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४०६ हितोपदेशः । गाथा-४३७, ४३८ - द्वितीयशिक्षाव्रतस्वरूपम् ।। द्वितीयशिक्षाव्रतातिचाराः ।। द्वितीयं शिक्षाव्रतमाह - दिसिवयगहियस्स दिसापरिमाणस्सेह पइदिणं जंतु । गमणपरिमाणकरणं बीयं सिक्खावयं एयं ।।४३७।। दिग्व्रते प्रथमगुणव्रते चातुर्मासादिकालमानेन यावज्जीवं वा गृहीतस्य दिशां परिमाणस्य संक्षेपणार्थं प्रतिदिनं यद् गमनपरिमाणकरणं तद् देशावकाशिकाख्यं द्वितीयं शिक्षाव्रतमिति ।।४३७ ।। 'अस्यातिचारानाह - वजइ इह आणयणप्पओग'-पेसप्पओगयं चेव । सद्दाणुवाय-रूवाणुवाय-बहिपुग्गलक्खेवं ।।४३८।। गाथा-४३७ 1. तला - उक्तं सातिचारं प्रथमं शिक्षाव्रतम् । साम्प्रतं द्वितीयमाह - दिसिवयगहियस्स दिसापरिमाणस्सेह पइदिणं जं तु । परिमाणकरणमेयं, अवरं खलु होइ विनेयं ।। - श्रा. ध. वि. प्र. गा. ९९ ।। (दिग्व्रतगृहीतस्य दिक्परिमाणस्येह प्रतिदिनं यत्तु । परिमाणकरणमेतदपरं खलु भवति विज्ञेयम् ।।) “दिसिवय” गाहा व्याख्या - दिग्व्रतमुक्तस्वरूपम्, तत्र गृहीतस्य दिक्परिमाणस्य दीर्घकालिकस्येति गम्यते, ‘इह' श्रावकधर्म प्रतिदिनं' अनुदिवसम्, एतञ्चोपलक्षणं प्रतिप्रहरादेः, 'यत्तु' यत्पुन: ‘परिमाणकरणं', संक्षिप्ततरदिक्प्रमाणग्रहणमित्यर्थः, ‘एतत्' एवंविधं परिमाणकरणं 'अपरं' अन्यद्-द्वितीयं शिक्षाव्रतं देशावकाशिकं देशे - दिग्व्रतगृहीतपरिमाणविभागेऽवकाशो देशावकाशः, तेन निर्वृत्तं देशावकाशिकं भवति विज्ञेयम् । इति गाथार्थः ।। - श्रा. ध. वि. प्र. गा. ९७ वृत्तौ ।। गाथा-४३८ 1. तुला - अत्राऽतिचारानाह - वजइ इह आणयणप्पओगपेसप्पओगयं चेव । सद्दाणुरूववायं, तह बहियापोग्गलक्खेवं ।। ___ - श्रा. ध. वि. प्र. गा. ९८ ।। (वर्जयतीह आनयनप्रयोगप्रेष्यप्रयोगतां चैव । शब्दानुरूपपातं, तथा बहिःपुद्गलप्रक्षेपम् ।।) “वजइ” गाहा व्याख्या - वर्जयति ‘इह' द्वितीयशिक्षाव्रते आनयनप्रयोगप्रेष्यप्रयोगतां चैव शब्दानुपातं रूपानुपातं तथा बहिः पुद्गलप्रक्षेपम् इति सूत्रानुवृत्तेः प्राकृतत्वाञ्च पदघटना । भावार्थस्तु - इह विशिष्टावधिके भूदेशाभिग्रहे परतः स्वयं गमनाऽयोगाद् यदन्यः सचित्तादिद्रव्यानयने प्रयुज्यते संदेशकप्रदानादिना त्वयेदमानेयम् इत्ययमानयनप्रयोगः १ । यथा प्रेष्यप्रयोगः तथा - अभिगृहीतप्रविचारदेशव्यतिक्रमभयादवश्यमेव गत्वा त्वया मम गवाद्यानेयम्, इदं वा तत्र कर्तव्यम् इत्येवंभूतः २ । तथा शब्दानुपात: - स्वगृहवृतिप्राकारादिव्यवच्छिन्नभूदेशाऽभिग्रहे बहिः प्रयोजनोत्पत्तौ तत्र स्वयं गमनाऽयोगात् वृतिप्राकारप्रत्यासन्नवर्तिनो बुद्धिपूर्वकं क्षुत्काशिकादिशब्दकरणेन ___JainEducation International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy