________________
हितोपदेशः । गाथा-४३६ - प्रथमशिक्षाव्रतातिचाराः ।।
४०५
इहास्मिन् सामायिके प्रतिपन्नव्रतो गृही एतानतिचारान् यत्नतो वर्जयति । तद्यथा - मनोदुष्प्रणिधानं वचनदुष्प्रणिधानं कायदुष्प्रणिधानमिति त्रयः । तथा कृतस्य सामायिकस्य स्मृतेभ्रंशश्चतुर्थः । तस्यैवानवस्थितकरणं पञ्चमः । यदाहुः -
सामाइयं तु काउं 'घरचिंतं जो य चिंतए सड्डो । अट्टवसट्टोवगओ निरत्थयं तस्स सामाइयं ।।१।। कडसामाइओ पुब्बिं बुद्धीए पेहिऊण भासिज्जा । सई निरवजं वयणं अन्नह सामाइयं न' हवे ।।२।। अनिरिक्खियापमजियथंडिल्ले ठाणमाइ सेवंतो । हिंसाभावे वि न सो कडसामइओ पमायाओ ।।३।। न सरइ पमायजुत्तो जं सामइयं कयाइ कायव् । कयमकयं वा तस्स उ कयं पि विहलं तयं नेयं ।।४।। काऊण तक्खणं चिय पारेइ करेइ वा जहिच्छाए ।
अणवट्ठियसामइयं अणायराओ न तं सुद्धं ।।५।। [श्रावकप्रज्ञ. प्रक. गा. ३१३-३१७] इति ।।४३६।।
(मन-वचन-कायदुष्प्रणिध्यानमिह यत्नतो विवर्जयति । स्मृत्यकरणनवस्थितस्य तथाऽकरणं चैव ।) __ "मण" गाहा व्याख्या - 'मनोवचनकायदुष्प्रणिधानं' मनःप्रभृतीनां सावधानां प्रवर्तनमित्यर्थः, 'इह' सामायिके 'यत्नतः' आदरेण 'विवर्जयति' परिहरते । त्रयोऽमी अतिचाराः . 'स्मृत्यकरणं' स्मृतेः - सामायिकविषयाया अनासेवनम्, एतदुक्तं भवति - प्रबलप्रमादान्नैवं स्मरति, अस्यां वेलायां सामायिक कर्तव्यं कृतं न कृतमिति वा, स्मृतिमूलं हि मोक्षानुष्ठानम् ४ । अनवस्थितकरणं - करणानन्तरमेव त्यजति, यथाकथञ्चिद्वाऽनवस्थितं करोतीत्यनवस्थितकरणं वर्जयतीति ५ । 'चः' समुच्चयार्थः । 'एवः' अवधारणे । अयमत्र भावार्थः - “सामाइयं ति काउं, घरचितं जो उ चिंतए सड्ढो । अट्टवसट्टोवगओ, निरत्ययं तस्स सामइयं ।।१।। कयसामइओ पुट्विं, बुद्धिए पेहिऊण भासिज्जा । सइ निरवजं वयणं, अण्णह सामाइयं भवे ।।२।। अनिरिक्खियापमज्जिअथंडिल्ले ठाणमाइ सेवेतो । हिंसाऽभावे वि न सो, कडसामइओ पमायाओ ।।३।। न सरइ पमायजुत्तो, जो सामइयं कया हु कायव्वं । कयमकयं वा तस्स हु, कयं पि विफलं तयं नेयं ।।४।। काऊण तक्खणं चिअ, पारेइ करेइ वा जहिच्छाए । अणवट्ठिअसामइयं, अणायराओ न तं सुद्धं" ।।५।। [ ]।। - श्रा. ध. वि. प्र. गा. ९६ वृत्तौ ।।
योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि ।। तत्त्वा. सू. ७/२८ ।। धर्म बि. अ. ३/३१९ तिविहे दुष्पणिहाणे, अणवट्ठाणे तहा सइविहूणे । सामाइअ (ए) वितहकए पढमे सिक्खावए निंदे ।। - श्रा. प्र. वृ. गा. २७ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org