________________
हितोपदेशः । गाथा-४३५ - प्रथमशिक्षाव्रतस्वरूपम् ।।
४०३
कन्दर्प: कामस्तद्धेतुस्तत्प्रधानो वा वाक्प्रयोगः कन्दर्पः । श्रावकेण तन्न वक्तव्यं, येन स्वस्य परस्य वा मोहोद्रेको भवति । प्रमादाञ्च वदतः प्रथमोऽतिचारः । कौत्कुच्यम् भ्रूनयनौष्ठनासादिविकारैरनेकप्रकारा भण्डचेष्टा येन च परो हसति । यस्माश्चात्मनो लाघवं भवति, तज्जातु शिष्टैर्न चेष्टितव्यम् । प्रमादाच्च तथा विधानेऽतिचारः । मुखरोऽनालोचितभाषी तस्य भावो मौखर्यम् । धाष्टर्यम् प्रायमसभ्यासम्बद्धबहुप्रलापित्वम् । तच्च कोरण्टककपालभिक्षोरिव लोकद्वयेऽप्यहितत्वेन त्याज्यमेव । प्रमादाच्च कुर्खतोऽतिचारः । तथा अधिकरणान्युदूखलादीनि तेषां मुशलादिभिः संयुक्तत्वं संयुक्ताधिकरणत्वम् । उदूखलेन मुशलस्य, हलेन फालस्य, शकटेन युगस्य, धनुषा शराणां योजने तदर्थिनो निषेधुमशक्यत्वात् प्रवृत्तिरूपं पापं मुधैव स्यादतो वियुक्तान्येवामूनि धार्याणि । प्रमादाञ्च योजयतोऽतिचारः । तथा उपभोगपरिभोगाङ्गानां तैलामलकादीनामतिरेकः स्वभोग्येभ्योऽधिकत्वमप्यनर्थदण्ड एव । तदाधिक्यसद्भावे तटस्थानामपि स्नानादिप्रवृत्तिप्रसङ्गे जलादिजन्तूपमर्दस्य स एव निमित्ततामापद्यते, ततः परिमितमेव परिभोगाङ्गमङ्गीकार्यम् । प्रमादात् तदाधिक्ये च पञ्चमोऽतिचारः ।।४३४ ।। एवमवसितातिचाराणि गुणव्रतानि । साम्प्रतं शिक्षाव्रतानामवसरः । तेष्वपि प्रथममाह -
सावजेयरजोगाण, वज्रणासेवणोभयसरूवं ।
सिक्खावयाण पढम, भन्नइ सामाइयं एयं ।।४३५।। तलागादीणं तडे निविट्ठो अंजलिहिं पहाइ । एवं जेसु अ पुप्फेसु कुंथुमाइ ताणि य परिहरति" ।।
- श्रा. ध. वि. प्र. गा. ९४ वृत्तौ ।। कन्दर्प-कौत्कुच्य-मौखर्या-ऽसमीक्ष्याधिकरणोपभोगाधिकत्वानि ।। तत्त्वा. सू. ७/२७ ।। - धर्म बि. अ. ३/३० ।। कंदप्पे कुक्कुइए, मोहरि अहिगरण भोगअइरित्ते । दंडंमि अणट्ठाए तइअंमि गुणव्वए निंदे ।। - श्रा. प्र. वृ. गा. २६ ।।
गाथा-४३५ 1. तुला - उक्तं सातिचारं तृतीयं गुणव्रतम् । तदुक्तौ चोक्तानि गुणव्रतानि । अधुना शिक्षाव्रतान्युच्यन्ते, तत्र शिक्षा-अभ्यासस्तत्प्रधानानि व्रतानि शिक्षाव्रतानि पुन: पुनरासेवनार्हाणीत्यर्थः । तानि च सामायिकादीनि चत्वारि, तत्र तावत् सामायिकमाह - सिक्खवयं तु एत्थं, सामाइय मो तयं तु विण्णेयं । सावजेयरजोगाण, वज्रणासेवणारूवं ।।
- श्रा. ध. वि. प्र. गा. ९५ ।। (शिक्षाव्रतं त्वत्र, सामायिकं तत्तु विज्ञेयम् । सावद्येतरयोगानां, वर्जनासेवनारूपम् ।)
"सिक्खा" गाहा व्याख्या - शिक्षा-परमपदप्रापिका क्रिया, तत्प्रधानं व्रतं शिक्षाव्रतं 'अत्र' श्रावकधर्म 'सामायिकम्' इति समः-रागद्वेषवियुक्तः, आयः - लाभः, समस्यायः समायः, समो हि प्रतिक्षणमपूर्वैर्ज्ञानदर्शनचारित्रपर्यायैर्निरुपमसुखहेतुभिरधःकृतचिन्तामणिकल्पद्रुमैयुज्यते, स एव समायः प्रयोजनमस्य क्रियानुष्ठानस्येति प्रयोजन
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org