________________
४०२
हितोपदेशः । गाथा-४३३, ४३४ - तृतीयगुणव्रतस्वरूपम् ।। तृतीयगुणव्रतातिचाराः ।।
अवज्झाण-पमायायरिय-हिंसदाणे य पावउवएसे ।
चउहा अणत्थदंडो, तत्थऽइयारा इमे पंच ।।४३३।। अनर्थदण्डः । अनर्थदण्डाख्यं तृतीयं गुणव्रतमपध्यान-प्रमादाचरित-हिंस्रदानपापोपदेशभेदात् चतुर्द्धा । तत्र खेचरत्वं नरेन्द्रत्वं वा मम जायतामित्यार्त्तानुगतम् । तथा 'हन्यन्तां वैरिणो दह्यन्तामरिपुराणी'त्यादिरौद्रानुगतमपध्यानम् । तथा गीतनृत्तनाटकादिषु कुतूहलवशादत्यन्तासक्तिः प्रमादाचरितम् । दाक्षिण्याविषयेऽपि शस्त्राग्निप्रभृतीनां दानं हिंस्रदानम् । स्वजनादिद्मसम्बन्धमन्तरेणापि कृषिकरण - वृषभदमनादिपापव्यापारेषु प्रेरणं पापोपदेशः । एभिरपध्यानादिभिरनर्थकं मुधैवात्मा दण्ड्यत इत्यनर्थदण्डस्तद्विरतिरूपं व्रतमनर्थदण्डव्रतम् । तत्रामी वक्ष्यमाणाः पञ्चातिचाराः ।।४३३।। तानेवाह --
कंदप्पं कुक्कुइयं', मोहरियं संजुयाहिगरणं च । उवभोगपरीभोगाइरेगयं चेव वजिज्जा ।।४३४ ।।
गाथा-४३४ 1. तुला - अत्रातिचारानाह - कंदप्पं कुक्कुइयं, मोहरियं संजुयाहिगरणं च । उवभोगपरीभोगाइरेगयं चेत्थ वजेइ ।। श्रा. ध. वि. प्र. गा. ९४ ।। (कन्दर्प कौकुच्यं मौखर्यं संयुताधिकरणं च । उपभोगपरिभोगातिरेकतां चात्र वर्जयति ।।)
"कंदप्पं" गाहा व्याख्या - कन्दर्प कौकुच्यं मौखयं संयुताधिकरणं चोपभोगपरिभोगातिरेकतां चात्र वर्जयतीति पदघटना । कन्दर्पः - कामः तद्धेतुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प उच्यते, मोहोद्दीपकं वा नर्मेति भावः १ । इह च सामाचारी-“सावगस्स अट्टट्टहासो न वट्टइ । जइ नाम हसिअव्वं तो ईसिं चेव विहसिअव्वं" [ ] इति । कौकुच्यं - कुत्सितसंकोचनादिक्रियायुक्त: कुकुचः, तद्भावः कौकुच्यम्; अनेकप्रकारा मुखनयनौष्ठकरचरणभूविकारपूर्विका परिहासादिजनिता भाण्डानामिव विडम्बनक्रियेत्यर्थः २ । एत्थ सामायारी - "तारिसाणि भणिउं न कप्पंति जारिसेहिं लोगस्स हासो उप्पज्जइ । एवं गईए ठाणेण वा ठाइउं" [ ] इति । मोखयं - धाष्र्यप्रायमसंबद्धप्रलापित्वमुच्यते ३ । “मुहेण वा अरिमाणेइ, जहा कुमारामञ्चेण सो चारभडो विसज्जिओ, रण्णो निवेइयं, ताए जीवियाए वित्ती दिण्णा, अण्णया रुटेण मारिओ कुमारामञ्चे ।" [ ] 'संजुत्ताहिगरणं' अधिक्रियते नरकादिष्वनेनेत्यधिकरणं वास्युदूखलशिलापुत्रगोधूमयन्त्रकादि, संयुक्तं - अर्थक्रियाकरणयोग्यम्, संयुक्तं च तदधिकरणं चेति समासः ४ । तत्थ सामायारी - "सावगेण न संजुत्ताणि चेव सगडाईणि धरेअव्वाणि, एवं वासीपरसुमाईविभासा ।" [ ] 'उवभोगपरिभोगाइरेगयं' ति उपभोगपरिभोगशब्दार्थो निरूपित एव, तदतिरेकतातदाधिक्यम् ५, एत्थ वि सामायारी - “उवभोगाइरित्तं जइ तेल्लामलए बहु गिण्हइ तो बहुगा व्हायगा वञ्चंति, तस्स लोलिआए अण्णे वि ण्हायगा वञ्चंति, पच्छा पूतरआउक्कायवहो । एवं पुप्फतंबोलमाइविभासा । एवं न ? वट्टइ । का विही सावगस्स उवभोगे पहाणे ? घरे व्हाइयव्वं, नत्थि ताहे तेल्लामलएहिं सीसं घंसित्ता सव्वे साडिऊणं तलागादीणं तडे निविट्ठो अंजलिहिं हाइ । एवं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org