________________
हितोपदेशः । गाथा-४३१, ४३२ - पञ्चदश कर्मादाननामानि ।। तृतीयगुणव्रतस्वरूपम् ।।
४०१
तान्येव नामतः प्राह -
इंगाली-वण'-साडी-भाडी-फोडीसु वजए कम्मं । वाणिज्जं चेव य दंत-लक्ख-रस-केस-विस-विसयं ।।४३१।। एवं खु जंतपीलणकर्म निल्लंछणं च दवदाणं३ ।
सरदहतलायसोसं४ असईपोसं५ च वजिजा ।।४३२।। एतानि पञ्चदशापि सुश्रमणोपासकः परिवर्जयेत् । कानीत्याह - कर्मशब्दोऽत्र वृत्तिवाची । वृत्तिश्च जीविका । अतो अङ्गारवृत्तिं वनवृत्तिं शकटवृत्तिं भाटकवृत्तिं स्फोटवृत्तिं च वर्जयेत् । तथा दन्त-लाक्षा-रस-केश-विषविषयं वाणिज्यं परिहरेत् । एवं पूर्वोक्तन्यायेनैव तिलेक्षुसर्षपादिपीलनयन्त्रनिर्लाञ्छनकर्म दवदानं सरोह्रदतडागादिशोषं असतीपोषं च वर्जयेदिति । अमीषां च प्रतिपदव्याख्यानं ग्रन्थातरेष्वपि सुप्रसिद्धमिति नात्र प्रपञ्चितम् ।।४३१ ।।४३२।। तृतीयं गुणव्रतमाह - गाथा-४३१ 1. तुला - श्रा. प्र. गा. २८७-२८८।। गाथा-४३२ 1. तुला - उक्तं सातिचारं द्वितीयं गुणव्रतम् । इदानीं तृतीयमाह - तहऽणत्थदंडविरई, अन्नं स चउब्विहो अवज्झाणे । पमयायरिए हिंसप्पयाण पावोवएसे य ।।
- श्रा. ध. वि. प्र. गा. ९३ ।। (तथाऽनर्थदण्डविरतिरन्यत् स चतुर्विधोऽपध्याने । प्रमादाचरिते हिंसाप्रदाने पापोपदेशे च ।।)
"तह" गाहा व्याख्या - 'तथा' तेनैव प्रकारेण “गुरुमूले" इत्यादिना निर्दिष्टेन 'अनर्थदण्डविरतिः' इति अर्थ: - प्रयोजनम्, न विद्यतेऽर्थो यस्मिन् सोऽनर्थः, दण्ड्यते आत्माऽनेनेति दण्डः-निग्रहः, अनर्थश्चासौ दण्डश्चानर्थदण्ड:इहलोकप्रयोजनमप्यङ्गीकृत्य निष्प्रयोजनभूतोपमर्दैनाऽत्मनो निग्रह इत्यर्थः, तस्य विरतिः-उपरमः ‘अन्यत्' अपरं तृतीयं गुणव्रतमिति हृदयम् । स चानर्थदण्डः 'चतुर्विधः' चतुष्प्रकारः । तदाह - “अपध्याने" निष्प्रयोजनदुष्टध्यानविषय इत्यर्थः । तदुक्तम् - "कइया वञ्चइ सत्थो ?, किं भंडं ? कत्थ केत्तीआ भूमी ? । को कयविक्कयकालो ?, निव्विसई किं कहिं केण ? ।।१।।" [ ] इत्यादि । प्रमादाचरिते' इति मद्यादिः प्रमादः तदाचरितविषयः । अनर्थदण्डत्वं चास्योक्तशब्दार्थद्वारेण स्वबुद्ध्या दृश्यम् । हिंसेति - हिंसाहेतुत्वादायुधानलविषादयो हिंसेत्युच्यन्ते, कारणे कार्योपचारात्; तेषां प्रदाने-अन्यस्मै तत्समर्पणे पापोपदेशे च' सूचनात्सूत्रमिति ‘पापकर्मोपदेशे' कृष्याद्युपदिशने । तदुक्तम् - खेत्ते खडेह गोणे, दमेह एमाइ सावयजणस्स । उवदिसिउंणो कप्पइ, जाणिअजिणवयणसारस्स ।।१।।" [ ] 'च' समुच्चये । एवं चतुर्विधोऽनर्थदण्डः । इति गाथार्थः ।। - श्रा. ध. वि. प्र. गा. ९३ वृत्तौ ।। हिंस्रप्रदानप्रमादाचरिते तु बहुसावद्यत्वात्साक्षात्सूत्रकृदेव द्विसूत्र्याऽऽह - सत्थग्गिमुसलजंतगतणकट्ठे मंतमूलभेसज्जे । दिन्ने दवाविए वा पडिक्कमे देसि सव्वं ।। ण्हाणुव्वट्टणवण्णग-विलेवणे सद्दरूवरसगंधे । वत्थासणआभरणे पडिक्कमे देसिअंसव्वं ।। - श्रा.प्र.वृ.गा. २४-२५ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org