SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा- ४३० - अङ्गारकर्मादीनि वर्जनीयानि ।। अस्मिन् भोगोपभोगव्रते भोजनतः प्रतिपन्ने अमी पञ्चातिचारा वर्जनीयाः । तद्यथा - सचित्तं फलादिः पृथिवीकायादिर्वा सच्चित्तवर्जकस्य सहसाकारादिना भुञ्जानस्य प्रथमोऽतिचारः । प्रतिबद्धं प्रस्तावात् सच्चित्तेन खर्जूरफलादि । तदपि किल बीजमेवास्य सच्चित्तमहं पुनः कटाहमेव भक्षयामीति बुद्ध्या प्रतिबद्धमेवाऽभ्यवहरतो द्वितीयोऽतिचारः । अपक्कं काटुकादि । तदपि सच्चित्तवर्जस् सहसाकारादिनाऽभ्यवहरतस्तृतीयः । दुष्पक्कं पृथुकादि तदप्यजीवाहारस्य सम्भवच्चेतनावयवत्वेन पक्वमितिबुद्धया भुञ्जानस्य चतुर्थः । तथा तुच्छमबद्धबीजं शिम्बादि, तदपि सहसाकारानाभोगादिभिर्भक्षयतः पञ्चम इति ।। ४२९ ।। ४०० भणितं भोजनतो भोगोपभोगव्रतं, साम्प्रतं तदेव कर्म्मतः प्राह 'कम्मयओ पुण इत्थं, पडिवन्ने सव्वमेव खरकम्मं । वज्जेयव्वं निचं, किं पुण इंगालकम्माई || ४३०॥ अस्मिन् द्वितीयगुणव्रते कर्म्मतः प्रतिपन्ने सकलमपि नृपनियोगलक्षणं खरकर्म्म नित्यं सदैव दुर्ध्याननिबन्धनत्वेन वर्जनीयम् । अङ्गारकर्म्मादीनां तु पञ्चदशानां कर्म्मादानानामभिनवाभिनवकर्म्मादानहेतूनां किमुच्यते । तानि सुतरां वर्जनीयानीति भावः ।।४३०।। वद्धेउं गोणाई न कप्पइ । दवग्गिदावणयाकम्मं वणदवं देइ खेत्तरक्खणनिमित्तं जहा उत्तरावहे, पच्छा दड्ढे तरुणगं तणं उट्ठेइ, तत्थ सत्ताणं सयसहस्साण वहो । सरदहतलागपरिसोसणया सरदहतलागाईणि सोसेइ, पच्छा वाविज्जइ, एवं न कप्पइ । असईपोस त्ति जहा गोल्लविसए जोणीपोसणगा दासीण तणिअं भाडिं गेण्हंति ।" [ ] प्रदर्शनं चैतद् बहुसावद्यानां कर्मणामेवंजातीयानाम्, न पुनः परिगणनमिति । इह चैवं विंशतिसंख्यातिचाराभिधानमन्यत्रापि पञ्चातिचारसंख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनामपरेषां संग्रहो द्रष्टव्य इति ज्ञापनार्थम्, तेन स्मृत्यन्तर्धानादयो यथासंभवं सर्वव्रतेष्वतिचारा दृश्याः । कृतं प्रसङ्गेन । इति गाथार्थः ।। श्री. ध. वि. प्र.गा. ९२ वृत्तौ ।। सचित्त-संबद्ध - संमिश्रा ऽभिषव - दुष्पक्वाहाराः ।। धर्म. बि. अ. ३ / २९ ।। तत्त्वा. सू. ७/३० । मज्जुंमि य मंसंमि अ, पुप्फे अ फले अ गंधमल्ले अ । उवभोगे परिभोगे, बीयंमि गुणव्वए निंदे । सच्चित्ते पडिबद्धे, अपोलदुप्पोलिअं च आहारे । तुच्छोसहिभक्खणया पडिक्कमे देसिअं सव्वं ।। श्री. प्र. वृ. गा. २०-२१ ।। गाथा- ४३० 1. तुला अत्र च व्रते भोगोपभोगोत्पादकानि बहुसावधानि । कर्मतोऽङ्गारकादीनि पञ्चदश कर्मादानानि, श्रावकेण ज्ञेयानि, न तु समाचरणीयानि अतस्तेषु यदनाभोगादिनाऽऽचरितं तत्प्रतिक्रमणायाह - इंगाली वणसाडी, भाडी फोडीसु वज्जए कम्मं । वाणिज्जं चेव य दंतलक्खरसकेसविसविसयं ।। एवं खुजंतपीलणकम्मं निल्लंछणं च दवदाणं । सरदहतलायसोसं, असईपोसं च वज्जिज्जा । । - श्रा. प्र. वृ. गा. २२-२३ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy