________________
हितोपदेशः । गाथा-४१५ - प्रथमाणुव्रतातिचाराः ।।
३८३
मनोवाक्तनुभिः । मनसा वधसङ्कल्पं न धारयति । वचसा वधोपदेशं न ददाति । कायेन वधं न विधत्ते । वधानुमतेस्तु न नियम: । पुत्रादिपरिग्रहवतो हि तस्य स्वयमकर्तुरन्येनाकारयितुरपि पुत्रादिप्रवर्तितवधपापांशभाजनता भवेदेव । तद्विधेयत्वात् पुत्रादीनाम् । अत एव द्विविधत्रिवेधेनैव प्रायः सर्वेऽपि गृहमेधिनियमाः । किंविशिष्टं जीवं ? स्थूलं स्थूलै - लौकिकमुनिभिरपि जीवत्वेन प्रतिपन्नत्वादेकेन्द्रियापेक्षया वा स्थूलं द्वीन्द्रियादि । किमर्थं स्थूलग्रहणमिति चेदुच्यते षड्विधजीवनिकायोपमईप्रसक्तत्वादसुकरैवास्यैकेन्द्रियवधविरतिरतः स्थूलग्रहणम् । ननु द्वीन्द्रियादिवधनिवृत्तिरस्य सर्वात्मना समीचीनैव । नेत्याह - सङ्कल्पितम् । अनेन द्वीन्द्रियादिना निहतेन ममैतदेतञ्च भवत्विति सङ्कल्पपूर्वं तद्वधं न विधत्ते । आरम्भप्रवृत्तस्य सदयहृदयस्य यतनापरस्यापि पञ्चेन्द्रियपर्यवसानानामपि प्राणिनां वधसम्भवादतः सङ्कल्पितमित्युक्तम् । तर्हि सङ्कल्पपूर्वके प्राणिवधे विरतिरस्य निर्विवादा । नेत्याह - निरपराधम् निरागसमेव जन्तुजातं गृही न हन्ति, न च घातयति । प्रतिपनवधविरतीनामपि तेषामाततायिषु वधप्रवृत्त्युपलब्धेरिति निरपराधमित्युक्तम् सोऽयं प्राणातिपातविरतिप्रकारः श्रमणोपासकानां समयसम्मतः पूर्वाचार्यसन्दिष्टश्चेति ।।४१४ ।।
एतानि च गृहिव्रतानि प्रत्येकं पञ्चातिचारपरिशुद्धानि प्रतिपाल्यमानानि यथोक्तफलदान्यतस्तेऽपि ज्ञेया हेयाश्च । तत्र प्रथमं 'प्रथमाणुव्रतातिचारानाह -
वह-बंध'-छविच्छेयं अइभारं भत्तपाणवुच्छेयं । पाणिवहाओ विरओ, वजिज इमे अईयारे ।।४१५।।
गाथा-४१५ तुला - तानेवाह - बंधवहछविच्छेयं, अइभारं भत्तपाणवोच्छेयं ।
कोहाइदूसियमणो, गोमणुयाईण नो कुजा ।। - श्रा. घ. प्र. गा. ८० ।। (बन्धवधच्छविच्छेदानतिभारं भक्तपानव्यवच्छेदम् । क्रोधादिदूषितमना, गोमनुष्यादीनां न कुर्यात् ।।)
"बंधवह" गाहा व्याख्या - बन्धवधच्छविच्छेदान् अतिभारं भक्तपानव्यवच्छेदं क्रोधादिदूषितमना गोमनुष्यादीनां न कुर्यात् । तत्र बन्धनं बन्धः - संयमनं रज्जुदामकादिभिः १ । हननं-वधस्ताडनं कषादिभिः २ । छविः-शरीरं तस्य च्छेदः - पाटनं करपत्रादिभिः ३ । भरणं भारः अतीव भरणमतिभारः प्रभूतस्य पूगफलादेः स्कन्धपृष्ठ्यादिष्वारोपणमित्यर्थः ४ । भक्तं-अशनमोदनकादि, पानं-पेयमुदकादि, तस्य व्यवच्छेदः-निरोधोऽदानमित्यर्थः ५ । एतान् समाचरन् अतिचरति प्रथमाणुव्रतान् । एतान् क्रोधादिदूषितमना न कुर्यादिति । अनेनाऽपवादमाहअन्यथाकरणाप्रतिषेधावगमात् । तत्र चायं पूर्वाचार्योक्तो विधि: - “बंधो दुपयाणं चउप्पयाणं च अट्ठाए अणट्ठाए अ । अणट्ठाए न वट्टइ बंधिउं । अट्ठाए दुविहो सावेक्खो निरवेक्खो य । णिरवेक्खो निञ्चलं धणियं जं बंधइ । सावेक्खो दामगंठिणा, जं च सक्कइ पलीवणाइसुं मुंचिउं छिंदिउं वा, ण संसरपासएण बंधिअव्वं । एवं ताव चउप्पयाणं । दुपयाणं पि दासो
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org