________________
हितोपदेशः । गाथा-४१०, ४११, ४१२ - देशविरते: स्वरूपम् भेदसङ्ख्या च ।।
३८१
इत्यादि । अतः समासेनेत्युक्तम् । इदानीं क्रमप्राप्तं विरतिद्वारस्य स्वरूपं श्रुतानुसारेण समयनीत्या प्रकटयामीति ।।४०९।। तत्रादौ विरतिशब्दार्थमेवाह -
विरई इह पन्नत्ता जिणेहिं दुक्कम्ममम्ममहणेहिं ।
आसवदारनिरोहो सो पुण देसे य सव्वे य ।।४१०।। इहास्मिन् शासने विरतिः प्रज्ञप्ता । कैजिनरर्हद्भिः । किंविशिष्टैर्दुष्कर्ममर्ममथनैः । किंस्वरूपेत्याह - आश्रवद्वारनिरोधः । आश्रवद्वाराणां प्राणातिपातादीनां निरोधः संवरः । स च देशतः सर्वतश्चेति ।।४१० ।। तत्रादौ देशविरतिस्वरूपमाह -
पाणिवहाईयाणं पावट्ठाणाण देसपडिसेहो ।
देसविरइ त्ति समणोवासगधम्मु त्ति सा होइ ।।४११।। प्राणिवधादीनां वक्ष्यमाणानां पापस्थानानां यः किल देशतः प्रतिषेधः सा देशविरतिः । श्रमणोपासकधर्मश्च सैव भवतीति ।।४११।। तस्यैव भेदसङ्ख्यामाह -
पंच य अणुव्वयाई गुणब्वयाइं तु हुंति तिनेव ।
सिक्खावयाणि चउरो इय गिहिधम्मो इमे ते य ।।४१२।। गाथा-४१० 1. तुला - हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ।। __ - तत्त्वा . सू. ७/१ विरमणं विरतिः ।।
___- तत्त्वा. सि. टीका अ. ७ सू. १ ।। 2. तुला - आस्रवनिरोधः संवरः ।। तत्त्वा. सू. ९-१ ।। आसूयते समादीयते यैः कर्माष्टविधमास्रवास्ते कर्मणां प्रवेशवीथयः शुभाशुभलक्षणाः कायादयस्त्रय इन्द्रिय-कषाया-ऽव्रत-क्रियाश्च पञ्च-चतुः पञ्च-पञ्चविंशतिसङ्ख्यास्तेषां निरोधो-निवारणं स्थगनं संवरः ।। तत्त्वा. सि. टीका ९-१ ।। यथोक्तस्य काययोगादेद्विचत्वारिंशद्विधस्यास्रवस्य निरोधः संवरः ।।
- तत्त्वा . भा. ९/१ ।। 3. तुला - देशसर्वतोऽणुमहती ।। तत्त्वा. सू. ७/२ ।। देशतो विरतिरणुव्रतं, सर्वतो विरतिर्महाव्रतम् ।
- तत्त्वा. सि. टीका ७/२ ।। एभ्यो हिंसादिभ्य एकदेशविरतिरणुव्रतं, सर्वतो विरतिर्महाव्रतमिति ।। - तत्त्वा . भा. ७/२ ।। गाथा-४१२ 1. तुला - पंचण्हमणुवयाणं, गुणव्वयाणं च तिण्हमइयारे । सिक्खाणं च चउण्हं ।।
___ - श्राद्ध प्र. वृत्तौ पत्रा. ५६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org