________________
३७६
हितोपदेशः । गाथा-४०६, ४०७, ४०८ - अभिनिवेशस्य माहात्म्यम् ।।
ववहारो वि हु बलवं जं वंदइ केवली वि छउमत्थं ।
आहाकम्मं भुंजइ सुयववहारं पमाणंतो ।।२।। [पुष्पमाला गा. २२९] तदैवं द्रव्यादीनां विषयविभागमविज्ञाय कुग्रहं प्रकटयन्ति । तथा 'जं किंचि सुत्तमित्तं जुत्तिसहं संगहेऊण ।' यत् किमप्यङ्गानङ्गगतं युक्तिसहं व्याख्यानद्वयावतारक्षमं सूत्रमानं पूर्वापराविचारेण संगृह्य ।।४०५।। ततः किं कुर्वन्तीत्याह -
पुवायरियकमागयतत्थमवहत्थिऊण मयवसओ ।
जं पयडंति कुमग्गं तमभिणिवेसस्स माहप्पं ।।४०६।। तस्य व्याख्यानद्वयावतारक्षमस्य सूत्रस्य पूर्वाचार्यक्रमागतार्थं पूर्वगणधरोपज्ञमर्थं व्याख्यानमवगणय्य अप्रमाणीकृत्य । कस्मात् ? मदवशतः स्वविद्याभिमानेन । यदेवमुदग्रकुग्रहग्रहिलधियः केऽपि कुमार्गं कुमतं प्रकटयन्ति तत् केवलमनर्गलस्याभिनिवेशस्यैव माहात्म्यमित्यहो ! तस्य वैशसम् ।।४०६।। यदि वा -
को वा दुसमसमुत्थे मोहहए इह जणे उवालंभो ।
मिच्छाभिणिवेसहया जमासि जिणनाहसमए वि ।।४०७।। वा अथवा अस्मिन्नदंयुगीने जने कुमतादिप्रकटनपरे क उपालम्भः । किम्भूते ? दुःषमासमुत्थे पञ्चमारकसमुत्पन्ने, अत एव मोहहते अज्ञानग्लपिते । यद् यस्माज्जिननाथसमयेऽपि विद्यमानेष्वपि केवलालोकभास्करेषु भगवत्सु जिनेषु मिथ्याभिनिवेशहताः स्फुरदसद्ग्रहनिहतमतयः केचनाऽभूवन् ।।४०७।। एतदेव स्पष्टयति -
उयह हयमोहमहिमं, जं जिणजिणपवयणेसु संतेसु । पयडिंसु केइ कुपह, दिटुंतो निन्हवा इत्थ ।।४०८।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org