________________
हितोपदेशः । गाथा-४०८ - अभिनिवेशस्य माहात्म्यम् ।। सप्त निह्नवाः ।।
३७७
-
उयह पश्यत, हतस्यास्य मोहस्य महिमानम् स्फूर्तिमत् । जिने मोहविजयिनि सुगृहीतनामनि भगवति श्रीवर्द्धमाने, तत्प्रवचने चाचाराङ्गादिद्वादशाङ्गरूपे सत्यपि केऽपि दीर्घसंसृतयः कुमतानि प्रकटयामासुः । किमत्र प्रमाणमिति चेत् अत्र निह्नवा एव दृष्टान्तः तथाहि -
गाथा-४०८ 1. निन्हवकारिणां नामान्याह - एएसि णं पवयणणिन्हगाणं सत्त धम्मायरिया होत्था - जमाली, तिस्सगुत्ते, आसाढे, आसमित्ते, गंगे, छल्लुए, गोट्ठामाहिले ।
- स्था. ७ठा. । नि. चू. ।। अथ येभ्यो ये निह्नवाः समुत्पन्नास्तदेतदाह - बहुरय जमालिपभवा, जीवपएसा य तीसगुत्ताओ । अव्वत्ताऽऽसाढाओ, सामुच्छेयाऽऽसमित्ताओ ।।२३०१।। गंगाओ दोकिरिया, छलुगा तेरासियाण उप्पत्ती । थेरा य गोट्ठमाहिल, पुट्ठमबद्धं परूवेंति ।।२३०२।।
बहुरता जमालिप्रभवाः, जमालेराचार्यात्प्रभव उत्पत्तिर्येषां ते बहुरता जमालिप्रभवाः १ । जीवप्रदेशाः पुनस्तिष्यगुप्तादुत्पन्ना २ । अव्यक्ता आषाढात् ३ । सामुच्छेदा अश्वमित्रादिति ४ । गङ्गाद् द्वैक्रियाः ५ । षडुलूकात् त्रैराशिकानामुत्पत्तिः ६ । स्थविराश्च गोष्ठामाहिलाः स्पृष्टमबद्धं प्ररूपयन्ति ७ । 'कर्म' इति गम्यते “परूविंसु वा" इति पाठान्तरं वा । ततो गोष्ठामाहिलादबद्धिका जाता इति सामर्थ्याद् गम्यते इति ।।२३०१-२३०२ विशे. भा. टीका।।
येषु स्थानेष्वेते समुत्पन्नास्तानि क्रमेणाऽऽह - एएसि णं सत्तण्हं पवयणनिण्हगाणं सत्त उप्पत्तिनगरे होत्था । स्था. ७ठा. तद् यथा -
सावत्थी उसभपुरं, सेयविआ मिहिल उल्लुगातीरं । पुरमंतरंजि दसउर, रहवीरपुरं च नयराई ।।२३०३ ।।
श्रावस्ती, ऋषभपुरं, श्वेतविका, मिथिला, उल्लुकातीरं, पुरमन्तररञ्जिका, दशपुरं, रथवीरपुरं चेति । एतान्यष्टौ नगराणि निवानां यथायोगमुत्पत्तिस्थानानि बोद्धव्यानि । अष्टमं नगरं द्रव्यलिङ्गमात्रेणापि भिन्नानां सर्वापलापिनां महामिथ्यादृशां वक्ष्यमाणानां बोटिकनिह्नवानां लाघवार्थमुत्पत्तिस्थानमुक्तमिति ।। २३०३ विशे. भा. टीका ।
अथ भगवतः समुत्पन्नकेवलज्ञानस्य परिनिर्वृत्तस्य च कः कियता कालेन निवः समुत्पन्नः ? इत्येतत्प्रतिपादयन्नाह -
चोद्दस सोलस वासा, चोद्दा वीसुत्तरा य दोन्नि सया । अट्ठावीसा य दुवे, पंचेव सया य चोयाला ।।२३०४।। पंचसया चुलसीओ, छञ्चेव सया नवुत्तरा होति । नाणुप्पत्तीए दुवे, उप्पन्ना निव्वुए सेसा ।।२३०५ ।।
चतुर्दश वर्षाणि । तथा षोडश वर्षाणि । तथा - ‘चोद्दा वीसुत्तरा य दोन्नि सय त्ति' चतुर्दशाधिके द्वे शते, विशत्युत्तरे च द्वे शते, वर्षाणामिति गम्यते । तथा - अष्टाविंशत्यधिके च द्वे शते, तथा पञ्चैव शतानि चतुश्चत्वारिंशदधिकानि, पञ्च शतानि चतुरशीत्यधिकानि, षट् चैव शतानि नवोत्तराणि भवन्ति । एतावता व्यवधानकालेन ज्ञानोत्पत्तेरारभ्याऽऽद्यौ द्वौ निह्नवौ समुत्पन्नौ । शेषास्तु षड् भवन्ति । श्रीमन्महावीरे निवृत्ते निर्वाणकालादारभ्य उक्तशेषेण यथोक्तेन व्यवधानकालेनोत्पन्नाः । इदमुक्तं भवति - श्रीमन् महावीरस्य केवलोत्पत्तेश्चतुर्दशभिवरतिक्रान्तैर्बहुरताः समुत्पन्नाः । षोडशभिर्वषैर्व्यतिक्रान्तैः जीवप्रदेशाः समुत्पन्नाः । भगवत एव निर्वाणकालाच्छेषेण चतुर्दशाधिकवर्षशतद्वयाऽऽदिना कालेनातिक्रान्तेन शेषा अव्यक्ताऽऽदयो निवाः समुत्पन्ना इति ।।
- २३०४-२३०५ विशे. भा. टीका ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org